अत्रोपपत्तिः । अदरेखा बजरेखा च कार्या । अनयोर्हचिहे संपातो जातः । एवं अबदत्रिभुजे अबभुजः बदनुजः अबदको- *K णश्च द्वितीयत्रिभुजस्य जदबस्य जदभुजदब भुजजदबकोणैः समानः । अदभुजबजभुज च समानौ । अदबकोणजबदकोणावपि स मानौ जातौ । एवं हबदत्रिभुजे हदबकोणह- . बदकोणौ समानौ । तर्हि बहभुजदहशुजौ च समानौ जातौ । पुनः । अहभुजजहभुजौ च समानौ जातौ । तस्माद् अहजत्रिभुजे अह भुजः हजभुजश्च समानौ जातौ । पुनः हअजकोणहजअकोणचैता वपि समानौ जातौ । दअबकोणबजदकोणौ पूर्वं समानौ स्थितौ ।। तस्मात् बअजकोणदजअकोणौ समानौ जाताविति सिद्धम् । इद मेवास्माकमभीष्टम् ॥ अथ तृतीयं क्षेत्रम् । तत्रैकरेखायां लम्बद्वयं समानं भवति तदा तयोर्मस्तक लग्नान्या रेखा कार्या एवं तयोर्लम्बरखान्यरेखासंपातजनितौ कोणौ समकोणौ भविष्यतः। यथा दबरेखायां अबरेखा जदरेखा च प्त लम्बौ जातौ । अजरेखा च कृता । तत्र बअजकोषादजअकोणौ समानावुत्पन्नौ समकोणौ च जातौ । कुतः। यदि हैौ समकोणौ न भवतः तदोभैवधिककोणौ अथवा न्यून- कोणौ भविष्यतः । तत्र यद्यधिककोणौ तदा अचिहात् अहलम्बः १ D. and A, omit अन्यरेखा. २ तदा न्यूनाधिकौ भविष्यतः। D.
पृष्ठम्:Rekha Ganita.djvu/१०३
एतत् पृष्ठम् अपरिष्कृतम् अस्ति