एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( = ) | ४९ यथा अबरेखायां जदरेखायां इफावरेखया संपातः कृतोऽस्ति । तत्र अझवकोणदवझकोणश्चैतौ समौ कोणौ भविष्यतः । अथ यदि समानौ न भविष्यतः तदा अभव कोणोऽधिककोणः कल्पितः। पुनः ब == = न शवकोणस्य अझवकोणेन योगः - कार्यः दवझकोणेनापि योगः कार्यः । तत्र प्रथमयोगः द्वयोः समकोणयोः समानः द्वितीययोगादधिको भ वति । तदा द्वितीययोगः द्वयोः समकोणयोर्जुनो जातः । यथा अब जदरेखयोः इफावरेखया संपातः कृतः तत्र बसवकोग्रदवसकोण योयोंगो द्वयोः समकोणयोर्जुनो जातस्तदा अबरखाजदरे बददिशि मिलिष्यतः । पुनः हझबकोणो । हवदकोणेन समानोऽस्ति । कुतः । हझबको अश्वकोणयोः समानत्वात् । पुनः बसवकोणदवझकोणयोर्योगो द्वयोः समकोणयोः समानो अस्ति । कुतः। बझत्रकोणअभत्रकोणयोगस्य द्वयोः समकोणयोः समानत्वात् । पुनः दवझकोणअसबकोणौ समानौ जातौ । इदमे. वास्माकमिष्टम् ॥ अथ त्रिंशत्तमं क्षेत्रम् । तत्र यावत्यो रेखा एकरेखायाः समानान्तरा भवन्ति ता । रेखाः परस्परं समानान्तरा एव भविष्यन्ति । यथा अबरखा जदरेखा च हझरेखायाः समानान्तरास्ति तदा अब रेखा जदरेखा च परस्परं समानान्तरा भविष्यति । वतकरेखया तिसृणां रेखाणां संपातः | • This sentence is omitted in A. B.

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Rekha_Ganita.djvu/११४&oldid=150673" इत्यस्माद् प्रतिप्राप्तम्