१७६
प्रकारान्तरम्।
दचिह्नात् दहलम्बः अबभुजोपरि दझलम्बश्च अजभुजोपरि कार्यः। तस्मात् बअजकोणस्य यदि खण्डद्वयं तुल्यं कल्प्यते तर्हीतौ लम्बौ समानौ भवतः। कुतः। अचिह्नस्य कोणद्वयं समानमस्ति। हकोण-झकोणावपि समकोणौ स्तः। अदरेखा त्रिभुजद्वयेऽप्येकैवास्ति। तस्माद्दहरेखा दझरेखा च बअदत्रिभुजे जअदत्रिभुजे च समानलम्बरूपा जाता। तस्मात् बअदत्रिभुजस्य निष्पत्तिर्जअदत्रिभुजेन तथा जाता यथा बअभुजस्य अजभुजेनास्ति। पुनरपि अनयोत्रिभुजयोर्निष्पत्तिर्बददजयोर्निष्पत्तितुल्यास्ति। तस्मात् बददजयोर्निष्पत्तिर्बअअजनिष्पत्तितुल्या जाता।
यदि तादृशी निष्पत्तिः स्यात् तदा कोणस्य द्वे खण्डे समाने भविष्यतः। कुतः। त्रिभुजयोर्निष्पत्तिर्बददजयोर्निष्पत्तितुल्यास्ति। बअअजनिष्पत्तेरपि तुल्यास्ति। यदा बअरेखा अजरेखा च भूमिः कल्पिता तदा अनयोत्रिभुजयोर्निष्पत्तिर्भूम्योर्निष्पत्त्या तुल्या भविष्यति। दहलम्बदझलम्बौ च समानौ भवतः। अदरेखा त्रिभुजद्वयेऽप्येकैव भविष्यति। तस्मात् हअदकोणझअदकोणौ समानौ भविष्यतः। इदमेवास्माकमिष्टम्॥
अथ चतुर्थे क्षेत्रम्।
ययोर्द्वयोस्त्रिभुजयोः कोणाः समाना भवन्ति तयोर्भुजयोनिंष्पत्तिरेकैव भविष्यति। यः कोणस्तुल्यो भवति तदाश्रितभुजयोर्निष्पत्तिस्तुल्या भवतीति ज्ञेयम्।
यथा अबजत्रिभुजे दइबत्रिभुजे बअजकोणजदहकोणौ समानौ कल्पितौ। पुनर्बजअकोणजहदकोणौ समानौ च कल्पितौ। पुनर् अबजकोणहजदकोणौ च समानौ कल्पितौ। तदा बजनिष्पत्तिर्जह-