तत्र समकोणान्यूनोऽल्पकोणो भवति । समकोणादधिकोऽधिककोणो भवति । समातिरिक्तो विषमकोणो भवति । इह समकोणः सरंलरेखाभ्यामेव भवति । विषमकोणः सरलरेखाभ्यां सरलकुटिलरेखाभ्यां कुटिलरेखाभ्यां च भवति अथ क्षेत्रलक्षणम् । तंत्र धरातलं रेखया रेखाभ्यां रेखाभिर्वा वृत्तं क्षेत्रसंज्ञं भवति । तच्च वृत्तकोदण्डत्र्यसचतुरसादिभेदेन बहुभेदं ज्ञेयम् । अथ वृत्तलक्षणम्। समधरातले बिन्दुं कृत्वा तस्मात् समानि सूत्राणि सर्वतः कृत्वा चक्राकारा कुटिला रेखा कार्या सा समानान्तरेण बिन्दुतः सूत्राणां स्पर्श करिष्यति सैव वृत्तसंज्ञा भवति। तदाक्रान्तं धरातलं वृत्तक्षेत्रं भवति । .K. omits सरलकुटिलरेखाभ्यां. २ D. omits तत्र. ३ समुच्यते D. ४ बहुविधम् D. ५ तस्मादेव बिन्दुतः सर्वाणि सूत्राणि या स्पृशति कुटिला रेखा तवृत्तं भयम् ID. तस्मात् समानि सूत्राणि या स्पृशति कुटिला रेखा तवृत्तं शेयम्।K.
पृष्ठम्:Rekha Ganita.djvu/६७
एतत् पृष्ठम् अपरिष्कृतम् अस्ति