एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१ अथैकोनविंशतितमं क्षेत्रम् । तत्र त्रिभुजे योऽधिककोणस्तत्सन्मुखभुजोऽपि महान् भ वति योऽल्पकोणस्तत्सन्मुखभुजोऽपि लघुर्भवति । यथा अबजत्रिभुजे जकोणः ब कोणान्महानस्ति । तस्मात् अबभु जोऽपि अजभुजान्महान् भविष्यति। कुतः । यदि अबभुजः अजभुजान्महान् ब८अ न भवति तदा तत्समो वा तद्यूनो वा भविष्यति । यदि समस्तदा बज फोणौ समानौ भविष्यतः । जकोणस्तु बकोणादधिकोऽस्ति । पुनः अबभुजः अजभुजात् यद्यल्पोऽस्ति तदा बकोणः जकणादधिकः स्यात् । जकोणस्तु बकोणादधिकः कल्पितोऽस्ति । तस्मात् अबभुजः अजभुजादधिको भविष्यतीत्येतदेवेष्टम् । अथ विंशतितमं क्षेत्रम् । तत्र त्रिभुजस्य भुजद्वययोगः तृतीयभुजादधिकोऽस्तीति निरूप्यते । यथा अबजत्रिभुजे अबअजयोगः बजादधिकोऽस्ति । बअमुजः दपर्यन्तं वर्द्धनीयः। अदः अजसमानः कार्यः । दज- रेखा च कार्या । तत्र बजदकोणः अजदकोणा दधिकोऽस्ति । अजदकोणश्च अदजकोणेन तु ल्योऽस्ति । बजदकोणोऽपि बदजकोणादधि अ कोऽस्ति । तस्मात् बदभुजः बजभुजादधिको बातः । १ D. K. have कुतः for अत्रोपपतिः ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Rekha_Ganita.djvu/८८&oldid=150645" इत्यस्माद् प्रतिप्राप्तम्