एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ज समकोणद्वयादधिकोऽस्ति । बअजकोणस्तु त्रिभुजस्यैककोणोऽस्ति । अयं समकोणद्वयादधिको जात इति । बाधितम् । त्रिभुजे कोणद्वययोगः सम कोणद्वयाद्यून एव भवतीति नियमो ऽस्ति । तस्मात् बददजरेखायोगे बअअजरेखायोगान्यूनोऽस्ति । अथ अदरेखा वपर्यन्तं नेया । तत्र बदवकोणः बअदकोणादधि कोऽस्ति । जदवकोणश्च जअदकोणादधिकोऽस्ति । तस्मात् बदज- कोणः बअजकोणादधिकः सिद्धः । इदमेवास्माकमभीष्टम् । अथ द्वाविंशतितमं क्षेत्रम् । तत्रैकं त्रिभुजं कैर्नमपेक्षास्ति तत्र त्रयो भुजास्तथा कल्प नीयाः यथा भुजद्वययोगस्तृतीयभुजादधिको भवति । | ते च त्रयो भुजाः अ बजसंज्ञाः ज्ञेयाः। N तत्र प्रथमं दहरेवा ( व वे कार्या । दहेरेखायां दश रेखा अरेखातुल्या पृथक् कार्या । झवरेखा च बरेखातुल्या पृथक् कार्या । वतरेखा जरेखातुल्या पृथक् कार्या । पुनीकेन्द्रं कृत्वा अद व्यासार्धेन दकलवृत्तं कार्यम् । वकेन्द्रं कृत्वा वतव्यासार्द्धन तकल वृत्तं कार्यम् । तदा वृत्रद्वयसंपातः कचिन्हे भवति । पुनः कश्च कवरेखा च कार्या । तत्र कझवत्रिभुजमस्माकमभीष्टं जातम् । अत्रोपपतिः । कहाभुजः झदतुल्योऽस्ति । इदं अतुल्यमस्ति । कर्क अतुल्यं • कर्तव्यमित्यपेक्षास्ति D. K.

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Rekha_Ganita.djvu/९२&oldid=150649" इत्यस्माद् प्रतिप्राप्तम्