अथ पञ्चविंशतितमे क्षेत्रम् । तत्रैकस्य त्रिभुजस्य भुजद्वयं द्वितीयत्रिभुजस्य भुजद्वयेन समानं प्रथमस्य तृतीयभुजश्च द्वितीयस्य तृतीयत्रिभुजादधि कस्तदा प्रथमत्रिभुजस्य समानभुजद्वयोत्पन्नकोणो द्वितीयत्रि भुजस्य भुजद्वयान्तर्गतकणादधिकः स्यात् । यथा एकं अबजत्रिभुजं द्वितीयं दहङ्कत्रिभुजं तत्र अबभुजो दह भुजेन तुल्यः। अजभुजो दक्षभुजेन आN व} तुल्यः। बजभुजोऽपि इक्षभुजादधिकः तदा बअजकोणो हदश्नकोणादधिकः स्यात् । यदि अधिको न स्यात् तदा ब हैं वे तुल्यो भविष्यति वा न्यूनो भविष्य- ति । यदि तुल्यस्तदा बजभुजो हझ भुजतुल्यः स्यात् । इदं बाधितम् । अथ च यदि न्यूनस्तदा बजभुजो इशयूनः स्यात् । इदमॅपि बाधितम् । - थतो बबभुजो हभुजादधिकोऽस्ति । तस्माद्वअजकोणो हदझको णादधिको जात इति सिद्धम् । पुनः प्रकारान्तरम् । दं केन्द्रं कृत्वा दकव्यासार्धेन झववृत्तं कार्यम् । इनं तपर्यन्तं नेयम् । हतं बजतुल्यं कार्यम् । पुनः के केन्द्रं कृत्वा इतव्यासार्धेन तववृत्तं कार्यम् । वृत्तद्वयसंपातो वचिन्हे अॅवति । दवरेखा हवरेखा च कार्या । तदा हदवत्रिभुजस्य त्रयो भुजाः बअजत्रिभुजस्य भुजत्रयेण समाना जाताःहदवकोणश्च हदह्नकोणादधिक इति सिद्धम् । १ इदमनुपपन्नम् । A. B. २ इदमप्यनुपपन्नम् । A.B. ३ प्रकारान्तरेण।D. प्रकारान्तरमाह । K. ४ K. omits भवति.
पृष्ठम्:Rekha Ganita.djvu/९६
एतत् पृष्ठम् अपरिष्कृतम् अस्ति