एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ४९, मँ ११ ] ददशमं मण्डलम् अ॒हम्। तत् । आसु । धार॒यम् । यत् । आसु । न । दे॒वः । च॒न । त्वष्ट । अधरयत् । रुश॑त् । स्प॒ाह॑म् । गवा॑म् । ऊध॑ऽसु । व॒क्षणा॑सु॒ । आ । मधः । मधु॑ । श्वा॒त्र्य॑म् । सोम॑म् । आ॒ऽशिर॑म् ॥ १० ॥ उद्गीथ० अहम् एव तत् पयः आसु गोपु धारयम् धारयामि वृष्टिप्रदानद्वारेण व्यवसोदकम् जनयन् | यत् पयः आसु गोषु देवः चन देवोऽपि त्वष्टा आदित्यो वा देवशिल्पी वा प्रजापतिर्वा न अधारयत् धारयितुं न शक्नोति । कीदृशम् पयः । रुशत् रोचिष्णु स्पार्हम् स्पृहणीयम् । गवां केषु प्रदेशेषु धारयसि गवाम् ऊधःसु इति प्रतिवचनम् । किञ्च वृक्षणासु नदीषु च धारयामि मधु उदकम् । कीदृशम् । श्वात्र्यम् क्षिप्रगामीत्यर्थः । किन्तं काळं धारयसि इति चेत्, 'आ मघोः मा वृष्ट्युदकात्' यावद् आगामिवर्षांसु 'वृष्टयुदकं पातयिष्यामि तावदित्यर्थः । किञ्च सोमम् आशिरम् सोमं च आशिरं च धारयामि हविष्ट्वेनं क सामर्थ्याद् यज्ञे ॥ १० ॥ । वेङ्कट० अहम् तत् आमु गोषु अधारयम् यत् आसु गोपु त्वष्टा अपि देवः न अधारयत्, दीप्तं पयः स्पृहणीयम् गवाम् ऊधस्सु बहनशीलासु अत्यन्तं स्वादु सुखावहम् सोमम् प्रति आशिरम् ॥ १० ॥ ए॒वा दे॒वाँ इन्द्रो॑ बिब्ये॒ नॄन् प्र च्यो॒त्नेन॑ म॒घवा॑ स॒त्यरा॑धाः । विश्वेत् ता ते॑ हरिवः शचीवोऽभि तुरास॑ः स्वयशो गृणन्ति ॥ ११ ॥ ए॒व । दे॒वान् । इन्द्र॑ः । वि॒व्ये॒ । नॄन् । प्र । च्यो॒ग्नेन॑ । म॒घवा॑ । स॒त्यऽरा॑धाः । त्रिश्वा॑ । इत् । ता । ते॒ । ह॒रि॒ऽव॒ः । शचीऽव॒ः । अ॒भि । तु॒रास॑ः । स्व॒ऽय॒श॒ । गृ॒ण॒न्त ॥ ११ ॥ उद्गीथ० एव एवम् अनेन उक्तप्रकारेण देवान् प्रति इन्द्रः प्र विव्ये प्रकर्पेण गच्छति अनुग्रहीतुम् नॄन् मनुष्यांश्च प्रति च्यौलेन चलेन, शत्रून् अभिभूयेति शेष, मघवा धनवान् सत्यराधाः सत्यधनः सत्यवादी ऋतधामेत्यर्थः । पूर्वार्धेन स्तुत्वेदानीं प्रत्यक्षीकृन्य स्तौति । अत एव च भिन्नवाक्यताऽनयोः । विश्वा इत् ता यानि मयोक्तानि सामर्थ्यकृतानि कर्माणि तानि सर्वाप्येव ते तव स्वभूतानि है हरिवः । हर्यश्व ! शचीवः | रसानुप्रदानवृनवधादिकर्मवन् ! प्रज्ञावनू! या तुरासः तुराः परया भक्त्या योगात् त्वरिताः सन्त 'भारताः सन्त' इत्यर्थः, स्वयशः तव स्वं यशः तव स्वभूतां कीर्ति चेत्यर्थः, अभि गृणन्ति अभिष्टुवन्ति स्तोतारः | कर्मकीर्तिस्तुतिद्वारेण तद्ब्रस्तुतिरिहोच्यते । रसानुप्रदानवृत्रवधादिकर्मकीर्तिमन्तं च त्वां सर्वे स्तोतारः स्तुवन्तीत्यर्थः ॥ ११ ॥ वेङ्कट० अय इन्द्रभावम् अपहायेन्द्रं स्तौति – एवम् ° देवान् मनुष्यान् च इन्द्रः प्र विव्ये स्वेषु कार्येषु ११. वृष्टयुदका मूको, २-२. 'कशनमिष्यामि भूको, ५. वयं वि. १०. 'वम् देवम् मूको. वि' भ'; साभा वि. ९. स्वयं मूको. अ. ४-४३५ ६. अन्नं ग्रही मूको. ३. अभि वि; नास्ति अ', ७. 'भावेन्य° मूको. ४. असाधा ८.८० नास्ति ि