पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/३५२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू१२५, ४ ] दशमं मण्डलम् घेङ्कट० अहम् ईशिनी सहमयित्री धनानां जानती मुख्या यष्टव्यानाम् । ताम् माम् देवाः दि अदधुः बहुषु स्थानेषु दुन्दुभ्यादिषु । 'थाऽनौ या रथन्तरे' ( तैना १, ३, २, ७ ) इति च बहुस्थानाम् भूरि च स्वस्मिन् स्थाने आवेशयन्तीम् ॥ ३ ॥ ब्राह्मणम् । मय॒ा सो अन्न॑मत्ति॒ यो वि॒पश्य॑ति॒ यः प्राणि॑ति॒ य ई॑ शृ॒णोत्युक्तम् । अ॒मन्तवो॒ म त उप॑ क्षियन्ति अ॒धि श्रु॒त श्रद्धधं ते॑ वदामि ॥ ४ ॥ मनु॑ । सः । अन्न॑म् । अ॒ति॒ । यः । वि॒ऽपश्य॑ति । यः । प्राणि॑ति । यः । म | शृणोति । उ॒क्तम् । अ॒म॒न्तत्र॑ः । माम् । ते । उप॑ । क्षि॑य॒न्ति॒ । श्रुधि । श्रुत॒ । श्र॒दे॒ऽयम् । ते॒ । व॒द॒ामि॒ ॥ ४ ॥ चेङ्कट० मया सा अक्षम् अत्ति, यः चक्षुषा विपश्यति यः च प्राणिति यः व इदम् उक्तम् शृणोति । अज्ञाः ते वृथा माम् उप निवसन्ति । म्हणु श्रोतः श्रद्धेयम् इदं सच अदम् वदामि इति ॥ ४ ॥ अ॒हमे॒व स्व॒यमि॒दं व॑दामि॒ जुष्ट॑ दे॒वेभि॑रु॒त मानु॑पेभिः । य॑ क॒ामये॒ तंत॑मु॒ग्रं कृ॑णोमि॒ तं ब्र॒ह्माणं तमृपि॑ तं सु॑मे॒धाम् ॥ ५ ॥ अ॒हम् । ए॒व । स्त्र॒यम् । इ॒दम् । व॒द॒ामि॒ । जुष्ट॑म् | दे॒वेभि॑ । उ॒त । मानु॑षेभिः । यम् । क॒ामये॑ । तमू॒ऽते॑म् । उ॒ग्रम् 1 कृ॒णोमि॒ । तम्ब्र॒ह्माण॑म् । तम्।ऋषि॑म्।तम्। सु॒ऽमे॒धाम् ॥ घेङ्कट स्वयम् इत्यनयोररूपो भेदः । अहम् एव स्वयम् इदम् वदामि सेवितम् देवैः मनुष्यैः च । यम् अहम् कामये, तम्-तम् अहम् उद्गूर्णम् करोमि तम् ब्राह्मणम्, तम् द्रष्टारम्, सम् सुप्रज्ञम् इति ॥ ५॥ इलि अष्टमाष्टके सप्तमाध्याये एकादशो वर्ग. ॥ अहं रु॒द्राय॒ धनु॒रा त॑नोभि ब्रह्म॒द्वेषु॒ शर॑वे॒ हन्त॒वा उ॑ । अहं जना॑य स॒मदं॑ कृणोम्य॒हं द्यावा॑पृथि॒वी आ वि॑वेश ॥ ६ ॥ अ॒हम् । रु॒द्राय॑ । धनु॑ः । आ । त॒नोमि॒ | ब्रह्म॒ऽद्वषै। शर॑वे । हन्त॒त्रै । ॐ इति॑ । अ॒हम् । जनः॑य । स॒ऽमद॑म् । कृ॒णोमि॒ । अ॒हम् | द्यावा॑पृथि॒वी इति॑ । आ । वि॒त्रे॑श॒ ॥ ६ ॥ बेट० अहम् रुद्राय देवाय धनुः आन्ततज्यं करोमि श्राह्मणानां द्वेटारम् हन्तव्यम् हन्तुम् अहम् जनाय कलई करोमि। अहम् द्यावापृथिवी आ विवेश इति ६ ॥ अ॒हं सु॑चे पि॒तर॑मस्य मूर्धन् मम॒ योनि॑र॒प्स्वन्तः स॑मु॒द्रे । ततो॒ वि ति॑िष्वे॒ भ्रुव॒नानु॒ विश्वो॒ता द्या॑ व॒र्ष्मणोप॑ स्पृशामि ॥ ७ ॥ १. कामयते मूको. २-२. नास्ति मूको.