एतत् पृष्ठम् अपरिष्कृतम् अस्ति

संगीतरत्नाकरः [पदर्थ मृत्यचन्द्रकलाकलापविलसदब्रह्माण्डखण्डान्तरं तं तूर्यत्रयपोषरूपवपुषं वन्दे भवानीपतिम् ॥ १ ॥ विघ्नौघहारिणं सर्वभक्ताभिमतकारिणम् । वारणास्यमहं वन्दे मौलावधेन्दुधारिणम् ॥ २ ॥ वाणि वीणालसरपाणि पञ्चाशद्वर्णरूपिणि । पादानतमुरश्रेणि निवासं कुरु मन्मुखे ॥ ३ ॥ वन्दे वेदार्थतत्त्वज्ञ ‘मुक्तिमार्गप्रवर्तकम् । सर्वागमविदं नित्यं चन्द्रभूषणदेशिकम् ॥ ४ ॥ आस्ते कर्णाटदेशः सुविमलयशसा पूरिताशः पृथिव्यां कावेरीकृष्णवेणीतरलतरतरङ्गद्रदक्षोत्तरसः । हृष्टः संलिप्य पूर्वापरनिजवपुषा प्राच्यपाश्चायचेले पाथोनाथप्रसक्तिप्रबलितनिखिलस्वाङ्गसौभाग्यलक्ष्मीः ॥ ५ ॥ भोग्यास्थिता भोगवतीव नित्यं सुपर्वरस्या दिविजस्थलीव । पुरीह विद्यनगरी चकास्ति तुङ्गतरङ्गरभितः पवित्रा ॥ ६ ॥ एतां शास्ति प्रशस्तप्रतिभटमकुटप्रान्तनिर्यत्ननिर्य- द्रलज्योति:प्रवालावनमनचटुलाटोपतापप्रतापः । कर्णाटाघाटलक्ष्मीघरणपरिलसत्पौरुषोत्कर्षशाली प्रौढः श्रीदेवरायो विजयनृपसुतो यादवानां वरेण्यः ॥ ७ ॥ विश्वभराभाग्यकृतावतारस्तस्यास्ति पुत्रो यशसा पवित्रः । संगीतसाहित्यकलास्वभिज्ञः प्रतापवानिम्मडिदेवरायः ॥ ८ ॥ सुधर्मेव सभा यस्य समुलासिकलाधरा । गान्धर्वगुणगम्भीरा विद्याधरविनोदिनी ॥ ९ ॥

  • कलापरिलसद

→ ०मार्गप्रदर्शकम् .

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:SangitaRatnakara.djvu/३२&oldid=122930" इत्यस्माद् प्रतिप्राप्तम्