पृष्ठम्:ShriMarutiStava1907VenkateshwarPress.djvu/१५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नातव्यते भव्यः सुरभिः सुगन्धिस्तथा सुरभिर्मनो-
ज्ञस्तथा पापानां यः प्रकृष्टस्तापस्तस्य समापनतायां शमक-
भावे परः सक्तोऽतुल्यः पावनेर्हनुमतः पादपद्मः पुरु बहु
पुनातु पवित्रयतु ॥९॥
मय्युच्छ्रितात्मनि क एधत आ इतीव
खज्योतिषां समुदयाय रुषेव रक्ता।
त्रासं प्रदातुमित एति हि यत्प्रभोर्द्ध
ता,र्यात्स देव.भवतो भवतोऽघ्रिपद्मः॥१०॥
मयीति ॥ उन्नतात्मनि मयि सत्यामपि आः (कोपे) क
एधते वर्द्धते इतीव इति कारणादिव रुपेव क्रुधेवरक्ता यत्प्रभा
यस्य (पादपद्मस्य) कान्तिः खज्योतिषां तारादीनां
समुदयाय गणाय त्रासं भयं प्रदातुमितः स्थानादूर्द्धमेति
गच्छति । हे देव ! हनुमन् ! स भवतोऽघ्रिपद्मः भवतः
संसारात्तार्यात्तारयतात् ॥१०॥
मञ्चन फणामजगरोऽतिगरोऽयमित्थं
खं संस्पृशन्नुपरितः परितश्च यस्य ।
सौलभ्यतः परिचितः कविभिः सुपुच्छो
मिथ्यात्वमन्तयतु नःस समीरसूनुः॥११॥
मुञ्चन्निति ॥ फणां मुञ्चन् क्षिपन्नयमतिगरो बहुविषशा-
त्यजगरस्तिलित्सः इत्थमेवंररीत्या उपरितः परितः समन्ताच्च
१ इतिपादवर्णनं समाप्तम् ।