तरूत्पाटनं तर्हि युद्धे विघ्नः स्यात् पुच्छेन च साध्यमाने
तत्कार्ये न कोऽपि विन इति भावः) मलमल्लकिनः कौपीन-
वतः सुमल्लतुल्यस्य ( हनुमतः ) अमलं लम्बित तल्लूम
पुच्छं मम पापं लुनातु छिनत्तु ॥ १८॥
भुञ्जीत तत्फलमिहैव स यो यदंज्याज-
जौर्त्यप्रदं परहदो निदिशन्नितीव ।
भव्यो हि योऽरिषु तमैक्षयतद्धिमाप्याऽ-
ग्नेः पूर्वमात्मनि स पातु कपीशपुच्छः॥१९॥
भुञ्जीतेति ॥ यः परहृदोऽपरमनसो जौयप्रदं व्यथाकरं
यदंऽज्यात् प्रकटयेत् स इहैव लोके तस्य फलं भुञ्जीताऽनु
भवेत् इति निदिशनिव निर्दिशनिव योहि भव्यः प्रियदर्शनः
(पुच्छः ) पूर्वमात्मनि अग्नेक्रद्धिमाप्य प्राप्य तं ( अग्निम् )
अरिषु शत्रुष्वक्षयत प्रादर्शयत(स्वयं त्वऽनेरृद्धिमात्रमन्वऽ.
भूदरिषु त्वनिमेवाऽपातयादिति भावः )स कपीशपुच्छ
पातु ॥१९॥
शक्तो निशाचरमहाशिथिलीकृतौ यः
कार्ये वशीकरण आश च शर एव ।
मुश्चेद्रशेस्थितमरिं सुकशैव शोभौ-
कः पातु शौयमनिशं बहुशःस पुच्छ:२०॥
शक्त इति॥निशाचराणां रक्षसां महसस्तेजसः शिथिला
१ इति पुच्छवर्णनं समाप्तम् ।
पृष्ठम्:ShriMarutiStava1907VenkateshwarPress.djvu/२०
एतत् पृष्ठम् अपरिष्कृतम् अस्ति