पृष्ठम्:ShriMarutiStava1907VenkateshwarPress.djvu/२४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मत्वा गिरिं तृणमिवोद्धृतवान्कपीशोऽ
ध्यंग हि यस्य सहसा सहरीशबाहुः।
पापैनिशाचरचयैस्त्रपयैव दृष्टोऽ-
तुल्यः शुचं शमयतामयताञ्च शोभाम२५॥
मत्वेति॥कपीशो यस्य(बाहोः)अध्यङ्गमङ्गे करे गिरि पर्वतं
तृणमिव मत्वा सहसोद्धृतवान् पापैनिशाचराणां चयैर्गणैस्त्रप-
यैव लजयैव ( संजीवन्याद्याहरणरूपे कार्ये विहन्यमानेऽपि
सर्वपर्वतानयनेन स्वोयोगस्य निष्फलीभूतत्वाल्लज्जा भवे-
देव ) दृष्टोऽतुल्योऽसमः स हरीशबाहुर्हनुमद्भुजः शुचं शोक
शमयतां तथा शोभामयतां प्राप्नोतु ॥२५॥
खद्योतमुद्तमवेत्य रसालमेव
(रत्या तमाप्तुमित उत्पततोऽति वातेः।
ध्वंजघृणिर्भुजयुगल्यधिरोहिणी या
सी,दन्नृणां दिवि गमायतता श्रये ताम२६
खद्योतमिति ॥ उद्गतमुदितं खद्योतं सूर्य रसालमासमवेत्य
ज्ञात्वा रत्या प्रीत्या तं रसालं (सूर्यम् ) आप्तुमादातुमितः
स्थानादत्यऽत्यर्थमुत्पतत उच्छलतो वातेर्हनुमतो ध्वजन्तः
प्रसरन्तो घृणयोऽङ्गदादिकिरणा यस्यास्तथोक्ता या भुज
युगली सीदन्नृणां दुःख्यतां नराणां दिवि स्वर्गे गमाय
गमनायाऽधिरोहिणी निश्रेणिस्तता प्रसारिता । तां (भुजयु-