मानमित्यर्थे परिहारः तद्धर्यच्छभल्लपतेः सुग्रीवस्य यो मन्त्री
हनुमांस्तस्य मुखमव्यात् ॥३१॥
नुत्यो रविः किमुदितो न तु पूर्वसानु-
मत्कूट एष किमु राजति पूर्णचन्द्रः ।
प्रत्यक्षमेतदह रा मनितं तु यस्याऽऽ-
भः. संमुदा जनकजाऽप्तिजयाऽऽन्तराणि३२
नित्य इति ॥ नुत्यः स्तुत्यो ( उदयकाले एक
स्तुत्यो भवत्येव ) रविः किमुदितः तु परन्त्वेष पूर्व-
सानुमतः पूर्वाद्रेः कूटः शिखरं न तत्रैव स उदेतीति भावः
किमु पूर्णचन्द्रो राजति परमेतत्प्रत्यक्षमहर्दिनं न तु रात्रिः ।
(तदुदयस्य रात्रावेव संभवादिति भावः)आः मनितं ज्ञातं यस्य
(हनुमतो)जनकजाऽऽप्तिजया सीतालब्धिभवयासंमुदाप्रीत्या
ऽऽन्तराणि अन्तःस्थानि बुद्धयादीनि आभुरराजन् ॥३२॥
। ऊरू प्रताडयत एव हि तस्य वाते
रूढप्रसादमवलोक्यत आननाब्जम्॥
रत्येति संप्रथित ऋक्षमुखैः सदा स
घूतकृन्निशाटगणमेजयतां मुखेन्दुः॥३३॥
उरू इति-उरू प्रताडयत आस्फोटयतस्तस्यैव वातहनुमः
रूढप्रसादं जातप्रसन्नभावमाननाब्जं मुखकमलमवलाप
मवलोक्यते
पृष्ठम्:ShriMarutiStava1907VenkateshwarPress.djvu/२८
एतत् पृष्ठम् अपरिष्कृतम् अस्ति