पृष्ठम्:ShriMarutiStava1907VenkateshwarPress.djvu/३०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नकुञ्चन् ध्रुवौ विरचने कविवर्यमानी
लब्धू कवीश्वरपदं प्रभवेन्मनुष्यः? ॥३५॥
रत्येति ॥ रत्या काव्यरचनप्रीत्या युतः सुकविवत् सु-
निबन्धे सद्ग्रन्थे दत्ते अक्षिणी नेत्रे येन तथोक्तः ।
कथञ्चन कथमपि हठादलात्कारेणाऽऽत्तानामाकृष्टानां
पदानां प्रयोक्ता तथा विरचने निर्माणकाले ध्रुवौ
कुञ्चन् कुटिलीकुर्वन् समुचितरचनाचातुर्यं स्वीयं दर्शयितु-
मिति भावः । कविवर्यमात्मानं मन्यते तथोक्तो मनुष्यः किं
कवीश्वरपदं लब्धं प्रभवेत् ? शनुयात् ? अपितु न प्रभवेदिति
भावः । एतद्वदेव स वराकः पद्मो न हनुमन्मुखं तादृशमनु-
कर्तुं शक्त इति तात्पर्यम् ॥ ३६॥
विज्ञाय हेतुत इतोऽतुलतां तु तस्य
नाऽमूहशो गुणगणं हनुमन्मुखस्य ।
शक्नोमि वर्णयितुमर्णवपूर्णताऽनु-
कृत, पार्थवं नु विरमामि नमामि यद्वा ॥३६॥
तिलकम्
विज्ञायेति ॥ इतो हेतुतोऽस्मात् कारणादमूदृश ईदृशस्य
तस्य हनुमन्मुखस्याऽतुलतामसदृशतां विज्ञायाऽर्णवस्य
समुद्रस्य पूर्णतामाभोगमनुकरोति तथोक्तं पार्थवं विततिय-
स्य तथोक्तं (अगाधमिति भावः ) गुणगणं गुणनिकरं वण