मख्यस्य मर्कटकुले बतयातुधानान्।
खांडयं सुनीतवत आशुगजस्य यच्चा लामा
तथ्यं व्यबुध्यत तदा जयतोपशब्दं
कः,सत्कविनहि कपीन्द्रमुखंतदव्यातू४०॥
चकलकम् ।
मुख्येति ॥ मर्कटकुले कपिकुले मुख्यस्य तथा यातु-
धानान् राक्षसान् खाण्डयं खण्डत्वं सुनीतवतः प्रापि-
तवत आशुगजस्य हनुमतो यत् ( गर्जितं ) कः स-
कविः सुकविस्तदा शत्रूणां शकलीकरणकाले तथ्यं सत्यं
जयस्य तोपशब्दं शतनीध्वनिं न व्यबुध्यताऽमन्यत । अपि
व्यबुध्यतैव तत्तथोक्तं कपीन्द्रस्य हनुमतो मुखमव्यात् ।
ाविति पृथग विच्छिद्य गजस्य कारण इत्यर्थे तस्य च
कापेकुले मुख्यताया असंभवाद् बतेत्यव्ययमत्र विरोध
पश्यति । चतुर्भिरन्वये चकलकम् ॥४०॥
पादेन योऽरिशिरसि प्रहर्ति विधाय द्यावा
दौख्यप्रदां स्वचरणस्य च शोणिमानम् ।
विज्ञो न्यदर्शयत रक्तमिषेण नूनं
भीनाशकः कपिवरोऽस्तु स मे प्रसन्नः॥४१॥
इति मुखवर्णनं समाप्तम् ॥ अस्मिन्दशके च क्रमेणैकैकपद्यवृद्धावन्चयो
दशितः॥
पृष्ठम्:ShriMarutiStava1907VenkateshwarPress.djvu/३३
एतत् पृष्ठम् अपरिष्कृतम् अस्ति