पृष्ठम्:ShriMarutiStava1907VenkateshwarPress.djvu/३५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रागाऽऽत्तराम इति चाक्षजयी निरागा
मोक्षप्रदोऽप्यविहितस्वसुभक्तमोक्षः॥४३॥
युग्मम् ।
पातात्सइति ॥ स पावनिहनुमानिह भवे संसारे तुन्नस्वकान्
दुःखितात्मनो नोऽस्मान् परिधिन्वितुंप्रीणयितुमपावनेऽ-
पविने पापे पातात्पतनात्पातादक्षतात् । हनुमन्तमुत्त-
राधन विशिनष्टि-रागेण स्नेहेनाऽऽत्ता गृहीता रामा
वनिता येन तथोक्तोऽपि अक्षजयीन्द्रियजेता इत्यर्थेन
विरोधे रागेणाऽऽत्तो रामः श्रीरामचन्द्रो येन तथोक्तोऽ-
क्षजयी रावणिजिदित्यर्थे तत्परिहारः । निरागो निष्पापो
निरपराधो वा तथा मोक्षप्रदोऽपि मुक्तिप्रदोऽपि न विहितो
न साधितः स्वस्य सुभक्तानां मोक्षो येन तथोक्त इत्यर्थन
विराध न निहितो न कृतो भक्तानां मोक्षस्त्यागो येन तथो-
कि इत्यर्थे तत्परिहारः । स्वभक्तान त्यजतीति भावः ॥४३॥
खिन्नत्वमाप्य रुदितेन च योऽनपत्वं
लंकौकसामृतमसाधयदाञ्जनेयः।
वन्द्यः स्व ऐक्षत शिवोद्भवतां यया चाऽऽ-
पुः क्षेममात्मसुहृदःस करोतु भद्रम् ॥४४॥
जन्नत्वेतिवन्धः स्तुत्यः यः आञ्जनेयो हनुमान् रुदितेन
न खिन्नत्वं दुःखितत्वमाप्य प्रापय्य नीत्वेत्यर्थः।लंको-
ति श्रीहनुमद्रवर्णनं समाप्तम् ।