मध्यमाधिकारे ग्रहानयनाध्यायः ५९ तत्रानुपातः । यद्येकेन सावनेन रविगतिर्लभ्यते तदाऽवमशेषेण किमिति रवि- अंगतिर्गुणो हरस्तु कल्पचान्द्राहः । गुणहरौ 'गुणेनापवर्त्य रविहरः कृतः । रविगत्या चन्द्रगतौ हृतायां स्वपञ्च- त्रिंशांशयुक्तास्त्रयोदशलब्धाः । अतः सर्वं निरवद्यम् । चन्द्राहतुल्येन परमावशेषेण रविगतिर्लभ्यते तदेष्टेन किमित्यनुपात: कृतो भाष्यकारेण स त्वयुक्त एव । ‘महीमितादर्तॄणात्फलानी’ति सावनदिवस एव रविमध्यकला वक्ष्यन्ते न चान्द्रे । तस्मात्तावदिदमयुक्तम् । चान्द्रगणसाधितावमशेषस्य सावनस्येच्छास्थानीयस्य प्रमाणस्थानीयचान्द्राद्विजातीयत्वमपि दोषावहम् | त्रैराशिके प्रमाणेच्छयोः समान- जातित्वनियमात् । समानजातित्वं सादृश्यादवगम्यते । सादृश्यमुपाधिना ववचिदव - गम्यते । अशीतिवराटकप्रमाणक [स्य पण ] 3 स्याशीतिवराटकमानपणै: सादृश्याव- बोध: । क्वचिज्जात्याऽपि । घटानां घटैः । ‘त्रिज्ये पृथक् कोटिभुजाहते ते कर्णोद्धृते लम्बपलज्यके स्तः ।' [इत्यत्र सर्वेष्वक्षक्षेत्रेषु पलभा भुजो, द्वादश कोटि:, पलकर्ण: कर्ण, इत्येव (क्षेत्र) मावत इत्युपाधि] नैव प्रमाणेच्छयो: समानजातित्व मिति न कश्चिद्दोषः । प्रकृते तु चान्द्रमिदं सावनमिदमित्युपाधिभेदेनैव प्रमाणेच्छयोः समानजातित्वमिति न कश्चिद् भेदस्य सुज्ञानत्वात् । प्रमाणेच्छयोर्विसदृशत्वं न दण्डेन परानूद्यते । अतोऽन्यथा भाष्यं व्याक्रियते । तावच्चन्द्रदिनमध्ये सावनं पूर्वोत्तप्रकारेण ज्ञात्वा तन्मध्ये रवि गतिमानमानयेत् । चान्द्राहतुल्येनेत्यत्र चान्द्रे दिनेऽह: सावनं तच्चन्द्राहशब्देनोच्यते । इयमानीता रविगतिश्च रविगतिशब्देनोच्यते । तस्माद्युक्तो- ऽयमनुपातः । चान्द्रान्तर्वत्तिना सावनेन तन्मध्यवत्तिनी गतिर्लभ्यते तदाऽ ['वमशेषेण किमिति । यद्वाऽवमशेषस्य ] कल्पचान्द्रा: हरस्तस्मात् परमावमशेषं कल्पचान्द्रतुल्य- मेव स्यात्तदेकसा वनतुल्यमतो युक्तोऽनुपातश्चान्द्राहतुल्येन परमावमशेषेणेति । अत्र चान्द्राहपदेन कल्पचान्द्रा उच्यते ||६-७॥ इदानीं प्रकारान्तरेण ग्रहानमनमाह । अर्कसावनदिवागणो हतः स्वस्वसावनदिनैस्तु कल्पजैः । खाभ्रबाणगिरिरामखत्रिगोशक्र विश्व - १३१४९३०३७५०० विहृदाप्तराशिभिः ।। ८ ॥ १. गुणोना क ख पु० । ३. कोष्ठान्तर्गतोंऽशो ग पु० नास्ति । गतिसमानयेदिति ग पु० । ५. २. त्रयोदश लध्वाः क ख पु० । ४. अयमंशो नास्ति गपु० । ६. अयमंशो नोपलभ्यते ग ५० ।
पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/१०४
एतत् पृष्ठम् अपरिष्कृतम् अस्ति