मध्यमाधिकारे कक्षाध्यायः ६५ भ्रमतो मेषादेर्या गतिः सैवोच्चगतिरित्युच्यते । कक्षास्थप्रदेश विशेषत्वेन सिद्धस्योच्चस्य को नाम भिन्नकक्षास्थितत्वं वदेत् । तथैव प्रतिमण्डलेन गच्छतो ग्रहस्य यत्र प्रदेशे शरा- भावः स एव प्रदेशः पात इति । तस्मादस्ति मिथो ग्रहाणां वैषम्यं ग्रहतुङ्गपातेभ्य इति सिद्धम् ' । एवं विसदृशगतीनां तुङ्गपातग्रहाणामेककक्षास्थितत्वमुक्तम् । अधुना तुल्य- गतीनामपि रविबुधशुक्राणां कक्षाभेदमाह । अर्कस्य कक्षैव सितज्ञयोः सा ज्ञेया तयोरानयनार्थमेव । 'उक्ते तयोर्ये चलतुङ्गकक्षे तत्रैव तौ च भ्रमतोऽर्कंगत्या' ॥ कक्षासाधनप्रकारेण साधिते कक्षे ज्ञशुक्रयोश्चलोच्चकक्षे एव भवतः । ज्ञशुक्रमध्यकक्षाभ्यां खकक्षातो भागे गृहीते ज्ञशुक्रचलोच्चभगणाः भवन्ति । ज्ञशुक्रयोर्मध्यगतौ साध्यमानायां रविमध्यगतितुल्यैव तयोर्गतिरुत्पद्यते । अत उक्तं चलतुङ्गकक्षायामेव ज्ञशुक्रयोरर्कमध्यगत्या भ्रमणमिति । किन्तु ज्ञशुक्रयोर्योजनात्मिका गतिः पादोनगोक्षधृतिभूमितयोजनेभ्यो भिन्ना । कक्षाभिन्नत्वे योजनात्मक कलात्मक- गत्योरभेदासंभवात् । लघुवृत्ते लघ्व्यः कला, महतिवृत्ते महत्य इति कलात्मकगतेरे- कत्वस्वीकारे योजनगतिरवश्यं भिद्यत इति भावः । उतयोगतेरानयनं त्रैराशिकेन । मध्यचलोच्चकक्षायोजनानि चक्रकलाभिस्तदा रविमध्यगतितुल्यकलाभिः किमिति ज्ञशुक्रयोर्योजनात्मिके गती भवतः । अतः सर्वं निरवद्यम् ॥१-९॥ ॥ इति कृष्णदैवज्ञात्मजनृसिंहकृतौ कक्षाध्यायः ॥ इदानीं स्वमतमाह - ब्रह्माण्डमेतन्मितमस्तु नो वा कल्पे ग्रहः क्रामति योजनानि । यावन्ति पूर्वैरिह तत्प्रमाणं प्रोक्तं खकक्षा ख्यमिदं मतं नः ॥ ३ ॥ वा० भा० – स्पष्टार्थम् ॥ ३ ॥ इदानीं ग्रहकक्षा आह । ग्रहस्य चक्र र्विहृता खकक्षा भवेत् स्वकक्षा निजकक्षिकायाम् । ग्रहः खकक्षामितयोजनानि भ्रमत्यजस्रं परिवर्त्तमानः ॥ ४ ॥ वा० भा० - सा खकक्षा यस्य यस्य भगणह्रियते तस्य तस्य ग्रहस्य कक्षामितिर्लभ्यते । अस्योपपत्तिरूपं श्लोकस्योत्तरार्धमिति । यतः स्वकक्षायां ग्रहो भ्रमन्नजत्रं परिवर्त्तमानः खकक्षा- मितानि योजनानि पूरयति । अतो ग्रहगणैर्भक्तायाः खकक्षाया यल्लभ्यते सा ग्रहकक्षामिति- रित्युपपन्नम् ।। ४ ।। ३. तथेगते गपु० । १. सिद्धि गपु० । सि० - ९ २. भदशह ग पु० ।
पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/११०
एतत् पृष्ठम् अपरिष्कृतम् अस्ति