११८ सिद्धान्तशिरोमणी ग्रहगणिते इत्येवं फलानयनमुक्त्वेदानों ग्रहस्पष्टीकरणमाह- स्यात् संस्कृतो मन्दफलेन मध्यो मन्दस्फुटोऽस्माच्चलकेन्द्रपूर्वम् ॥ ३४ ॥ विधाय शैघ्न्येण फलेन चैवं खेटः स्फुटः स्यादसकृत् फलाभ्याम् । दलीकृताभ्यां प्रथमं फलाभ्यां ततोऽखिलाभ्यामसकृत् कुजस्तु ॥ ३५ ॥ स्फुटौ रवीन्द्र मृदुनैव वेद्यौ शीघ्राख्यतुङ्गस्य तयोरभावात् । वा० भा० – आदौ ग्रहस्य मन्दफलमानीय तेन संस्कृतोऽसौ मन्दस्फुट: स्यात् । तं शीघ्रो- च्चा द्विशोध्य शीघ्र केन्द्र कृत्वा ततः शीघ्रफलं तेन संस्कृतो मन्दस्फुडो ग्रहः स्फुट: स्यात् । तस्मात् स्फुटान्मन्दोच्चं विशोध्य मन्दफलमानीय तेन गणितागतो मध्य: संस्कृतो मन्दस्फुट: स्यात् । तेन पुनश्चलकेन्द्र' ततश्चलफलं तेन मन्दस्फुट: संस्कृत: स्फुट: स्यात् । एवमसकृद्यावविशेषः । अस्योपपत्तिर्गौले । शोधूनीचोच्चवृत्तस्य मध्यस्थिति ज्ञातुमादौ कृतं कर्म मान्दं ततः । खेटबोधाय शंध्न्यं मिथः संश्रिते मान्दशैध्ये हि तेनासकृत् साधिते || इति तथा मन्दकर्मणि कर्णो न वृतस्तत्कारणमपि गोले कथितम् । यत् तु दलीकृता- भ्यां प्रथमं फलाभ्यामित्यादि कुजस्य विशेषस्तत्रोपलब्धिरेव वासना ।। ३३२-३५३ ॥ वा० वा० – अथ ग्रहस्पष्टत्वार्थं विष्णुधर्मोत्तरद्वितीयकाण्डान्तोक्तब्रह्मसिद्धान्तो- क्तथा ग्रहभगणान्मन्दशीघ्रपरिधींश्च स्वीकृत्य तन्मतेनैव फलसंस्करणप्रकार- माह' – “स्यात् संस्कृतः" इति । - यदा यन्त्रवेधोपलब्धः स्पष्टो मन्दोच्चतुल्यो दृष्टस्तदा सर्वदा गणितागतमध्य- मस्य वेधोपलब्धस्पष्टस्यान्तरं शीघ्रफलतुल्यं दृष्टम् । तस्मात् स्पष्टान्मन्दफलमानी मध्यमे देयं स मन्दस्पष्टः स्यात् । मन्दस्पष्टाच्छीघ्रफलमानीय मन्दस्पष्टे देयं स स्पष्टः स्यात् । एवं फलयोमिंथः संश्रितत्वादसकृत् साधनमुचितम् । वक्ष्यते गोले । 'शोघ्रनी- चोच्चवृत्तस्येति' । 'स्फुटग्रहं मध्यखगं" इत्यत्रापि स्पष्टसाधितं फलं मान्दं स्पष्टे विलोमं कृतं तद्युक्तियुक्तम् । विलोममन्दफलसंस्कृतात् स्पष्टाद्यच्छीघ्रफलं साध्यते तदयुक्तम् । यतो वास्तवान्मन्दस्पष्टादेव कत्तु मुचितम् । वास्तवशीघ्रफलेन विलोमेन संस्कृतः स्पष्टो वास्तवमन्दस्पष्ट: स्यात् । एवं फलयोमिथ: संश्रितत्वादसकृत्साधनम् । सौरतन्त्रे तु चत्वार एवोपग्रहाः कर्मचतुष्टये कारणत्वेन कल्पिता इति न किञ्चिद्बाधकम् । भौमस्य विशेषमाह —दलीकृताभ्यामिति । स्वसत्ताकाले यादृशी उपलब्धिस्ता- दृशमुक्तम् । अत एव सौरेऽभिहितं 'कालभेदोऽत्र केवलम्' इति । रविचन्द्रस्पष्टीकरणमाह- स्फुटौ रवीन्दू मृदुनैव वेद्याविति' । केचन प्रतारकाश्चन्द्रस्य द्वितीयं फलमुपकल्प्य चन्द्रमन्दकेन्द्रं तेन संस्कृत्य तस्मात् केन्द्रान्मन्दफलमानीय मध्यमचन्द्रे देयम् । स स्पष्टश्चन्द्रो भवतीत्याहुः तन्मत- निवारणाय एव कारो दत्तः । तत्र हेतुमाह -- 'शीघ्राख्यतुङ्गस्य तयोरभावादिति' । शीघ्रफलानुपलब्ध्या शीघ्रोच्चाभावः न क्वचिदार्षशास्त्रे तच्छीघ्रोच्चभगणा उक्ताः || ३३३-३५३ ॥
पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/१६३
एतत् पृष्ठम् अपरिष्कृतम् अस्ति