पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/१९२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्रिप्रश्नाधिकारः १४७ तदप्यतिमन्दम् । यस्मिन् काले लग्नं कर्तुमिष्टं तस्मिन्नेव काले युगप[त्तात्का- लिकार्कस्तच्छाया च लक्षणीया | ततः सावनघटीज्ञानं सुलभम् | रात्रावपि नक्षत्र- ध्रुवाद्यं यन्त्रोपलब्धा-]त्तात्कालिकग्रहाद्वा तात्कालिकलक्षितच्छायया नक्षत्रग्रहदिनगत - मानीय तत्रार्कास्तमनकालभग्रहोदयकालयोरन्तरकालं संस्कृत्य सूर्यसावनघटीज्ञानं संभवत्येव । अत एवोक्तं सिद्धान्तरहस्ये - खेचरोऽर्कास्तकाले सषड्भार्कतो योऽधिकोऽल्पोऽर्कनिश्युदेतीह सः । अस्तमेत्यन्यथाऽथो विधेयः क्रमात्पूर्वपश्चात्स्थहक्कर्मभाक् स ग्रहः ॥ उद्गमे यातकालः खगः त्वस्तके षड्भयुक्तात् सषड्भार्कभोग्यान्वितः । युक्तमध्योदयोस्योद्गमास्ते भवेद्रात्रियातोऽथ तत्कालखेटो स्फुटः ॥ प्राग्दृक्खचराङ्गभाढ्यभान्वोरल्पोऽर्कस्त्वपरस्तनुस्तदन्तः । कालः स खगोदये द्युशेषो रात्रीतः क्रमशो ग्रहेऽल्पपुष्टे ॥ तेनोनोऽथ च सहितो ग्रहद्ययातः स्यादर्कास्तमयतो निशि प्रयातः । यद्वा सूर्योदयानन्तरं एतावतीष्वर्कसावनघटिकासु कोहग्लग्नमित्यनुक्त्वा तव सावनघटीज्ञानमेव नास्तीति, यः प्रतिब्रूयात्स कस्योपहास्यो न स्यात् । तस्मान्निरर्थ- कमाशङ्कनमिदम् । यत्र तु लग्नादर्कसावनघटिका: साध्यन्ते, तत्रापीदमाशङ्कनं निरर्थकमेव । अथास्मिल्लग्ने एतावतीष्वर्कसावनघटीषु पाणिग्रहादिकार्यमित्युक्ते सावनघटिकाः ज्ञातुं न शक्यन्ते विषमपरिमाणत्वादिति चेत् | युनिशनिमज्जनमित्यादि घटीपरिमाणेन सावनघटिका अपि ज्ञातुं शक्यन्त एव । अत्र यदतीव सूक्ष्ममन्तरं मनुष्यदृग्विषयाद्यतीतं तत्त्यागेऽपि न कोऽपि दोषः । तथा च वक्ष्यते—स्वल्पान्तरत्वादबहूपयोगादित्यादिना । तस्मादसकृत्साधने इतरेतराश्रयदोषोऽप्यविचारितरमणीय इति सर्वं निरवद्यम् । मेषादिकानामुदयासवः स्युरित्युक्तेः सिद्धा ये 3 अभ्राद्रिभूपा' इत्याद्या उदयास्ते वास्तवानां जनप्रसिद्धरेवत्यन्तमधिकृत्य प्रवृत्तानां मुख्यमेषादिराशीनां भवन्ति, न भवन्ति वेति विचार्यते - आद्ये भुक्तभोग्यकालानयनेऽयनांशयोजनं व्यर्थं स्यात् । चरमे पारक्योदयेन कथं भुक्तभोग्यकालानयनं युक्तं स्यात् । परकीयत्वविशेषेण मेषराशि- स्थग्रहस्य भुक्तभोग्यकालसाधनं द्वादशभिरपि राश्युदयैः कथं च न स्यात् । अथ सायनमेषादिराशी नामुदया भवन्तीति चेत्, मैवम् | सायनमेषादीनाम- प्रसिद्धेः । अयनांशानामस्थिरत्वेन तारागणपञ्जरे सायनमेषादिराशीनां सङ्केतस्य कर्तुमशक्यत्वात्तेषां सर्वजनेष्व प्रसिद्धिः । सायननिरयनविभेदेन राशीनां द्वैविध्याङ्गी- कारचातुविध्यमपि को 'निरन्ध्यात् । क्रान्तिपातसंस्कृते ग्रहे मेंषादिराशिपदप्रयोग- दर्शनाद्यथा सायना मेषादिराशयः स्वीक्रियन्ते तथा शरपातसंस्कृते ग्रहेऽपि प्रयोगाच्छर- १. कोष्ठान्तर्गतोंऽशो ग पुस्तके नास्ति ३. ५. मे इति ग पु० । परकाय इति गपु० । २. सर्वे इति गपु० । चरम इति गपु० । ४. ६. प्रसिद्ध इति ग पु० । ७. निध्यादिति गपु० ।