१४८ सिद्धान्तशिरोमणौ ग्रहगणिते मेषादयोऽपि स्वोक्रियन्ता 'म् । तथा मन्दशीघ्रकेन्द्रयोरपि मृगकर्यादिव्यवहारदर्शनात् केन्द्रराशयोऽपि स्वीकार्याः । तथैवाभ्युपगमे मेषादिशब्दो नानार्थ: स्यात् । शेषराशि- रित्युक्ते कथं लोकानां सन्देहो न भवेत् को मेष इति । अन्याय्यमनेकार्थत्वं मेषादि- शब्दानां तस्मान्मुख्यमेषादिप्रयोगो रेवत्यन्तमादिं कृत्वा नवनक्षत्रचरणपर्यन्तं यत्स्थानं तत्स्थानवाचकः । एवं वृषादिशब्दोपि । केन्द्रादिषु मेषादिराशिप्रयोगो गौणः । एक- द्वयादिसङ्ख्यासादृश्येन प्रयुज्यत इति राशीनां द्वैविध्यमप्रसिद्धम् । नन्वभ्राद्रिभूपा इत्युदयासवः कस्येति चेत् । उच्यते । नाडीमण्डलक्रान्ति- मण्डलसम्पातमवधीकृत्य क्षेत्राणि प्रवृत्तानीति क्रान्तिपाताङ्के यो राश्यङ्कस्त त्रिंशदंशपर्यन्तमग्रे यो राश्यङ्कस्तस्येत्यवधारय । यद्यष्टादशायनांशा धनभूतास्तदा मीनराशेर्द्वादशमितांशेषु गतेषु प्रथमराश्युदय- प्रारम्भः । मेषराशेर्द्वादशमितांशेषु निवृत्तिरिति त्रिशदंशात्मकराशेरुदयासव इति स्पष्टम् । क्रान्तिपाताङ्कात्प्रथमोऽयं राशिरिति सायनो मेषराशिरित्युच्यते । त्रिंशदंशा- त्मकमुख्यमेषराशौ द्वादशभागपर्यंन्तं सायनमेषराश्युदयेन कालसाधनं कार्यम् । ततोऽष्टा- दशभागेषु सायनवृषोदयेन कालसाधनम् । एवं सर्वेष्वपि राशिषु अदत्तायनांशात् तात्कालिकार्काद्यदि लग्नं साध्यते तदा लग्नमयनांशशोधनं विनापि स्पष्टं सिद्धयत्येव । यदा तात्कालिका राश्याद्यः ॥ ४ ॥ २७ ॥ ० ॥ ० ॥ अयनांशाः १८ ॥ इष्टकालो घटिकाः दश १० तदा यथोक्तप्रकारेण जातं लग्नम् ॥ ६ ॥ २० ॥ ३१ ॥ १८ ॥ इदमेव लग्नं प्रकारान्तरेण साध्यते । तत्र मेषादिराशीनां स्वीयसायनोदया- वधयः । मे०।०॥१२॥ वृ०१।१२ मि० २।१२ क० ३।१२ सिं० ४|१२ क० ५ | १२ तु० ६।१२ वृ० ७।१२ ६० ८।१२ म० ९/१२ कु० १०/१२ मी० ११ १२ यस्य ग्रहस्य लग्नस्य वा भुक्तभोग्यकालः साध्यते स ग्रहो लग्नं वा यस्मिन् राश्यादि विभागे वर्तते तस्मात् सन्निहितावधिः पृष्ठस्थः शोध्यो भुक्तांशा भवन्ति । स ग्रहो लग्नं वाग्रिमावधे सन्नि- हिताच्छोध्यो भोग्यांशास्तस्य भवन्ति । एवं भुक्तभोग्यांशाः सन्निहिताग्रिमावधिर्य- स्मिन् राशौ तद्राश्युदयेन गुणनीयास्त्रिशता भाज्या: भुक्तभोग्यकालौ भवत इत्यव- धार्यम् । शेषं पूर्ववदेव । तत्रास्मिन् उदाहरणे रवेर्भोग्यकालः साध्यते - अस्मिन् रवौ ||४||२७||०३||०|| अग्रिमावधेरस्मात् ।।५।।१२||०||०|| च्छोधिते जाता रवेर्भोग्यभागाः पञ्चदश ।।१५।०॥०॥ तत्राग्रिमावधिः कन्याराशा विति कन्योदयेन गुणनीयः । तत्रास्मिस्तीर्थराजे प्र्रयागे पादोनरसाङ्गुलाक्षभे देशे कन्योदयमानेनानेन ||३३५। गुणितास्त्रिशद्भक्ताः जातो भोग्यकालोऽर्कस्य पलाद्यः ||१६७||३०|| अय- १. क्रियतामिति ग पु० । २. लग्नो इति क ख ग पु० । ४. राश्यदिति, इति ग पु० । ३. ७ कखपु० ।
पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/१९३
एतत् पृष्ठम् अपरिष्कृतम् अस्ति