सिद्धान्तशिरोमणौ ग्रहगणिते तच्चैवम् । इदानीमथवैकस्मादपि भाग्रतः । अभीष्टकाले शङ्कोर्भाग्रं चिह्नयित्वा तस्याश्छायाया वक्ष्यमाणप्रकारेण भुजं कोटि चानीय भुजकोटिमिते शलाके गृहोत्वा शङ्कुमूलाद्यथा दिग्गतां कोटिशलाकां छायाग्राद्वयस्तदिग्गतां भुजशलाकां च तथा भुवि न्यसेद्यथा शलाकाग्रयोः संयुतिः स्यात् । एवं कृते सति कोटि : प्राच्यपररा दिग्भवति । बाहुश्च याभ्योत्तरा । १५२ अत्रोपपत्तिः -- अहोरात्रवृत्त इष्टानामुन्नतघटिकानामग्रे पूर्वाह्न सममण्डलेन यावदन्तरं तावदेवातावतीनमिष्टघटनामग्रे भवति । अतस्तच्छायाग्रबिन्दुभ्यां दिग्ज्ञानमुपपद्यते । परं तत्कालान्तरेण तदकंक्रान्स्यन्तरं तेनान्तरितं भवति । अतस्तत् सन्धेयम् । तच्चैवम् । तस्मिन् काले यानि कर्णवृत्ताग्राङ्गुलानि पूर्वाह्न यानि चापराह्न तेषामन्तरं कार्यम् । तत्र लाघवार्थं तत्कालक्रान्त्योरेव न्तरं कृतम् । ततोऽग्रान्तरकरणायानुपात: । यदि लम्बज्याकोटचा त्रिज्या- कर्णस्तदा क्रान्तिज्यान्तरेण किमिति । अत्र लब्धमंग्रान्तरम् । ततोऽन्योऽनुपात: । यदि त्रिज्या- व्यासार्थ एतावदन्तरं तदा कर्णव्यासाचें किमिति । अत्र तुल्यत्वाद्गुणकभाजकयोस्त्रिज्यानाशे कृते सत्युपपन्नं 'तत्कालापमजीवयोस्तु विवरादित्यादि ।' यद्युत्तरमयनं वर्तत उत्तरो के चलिते शङ्कर्भाग्रं दक्षिणतो याति तदुत्तरतश्चालनीयम् । अत उपपन्न मैन्द्री स्फुटा चालितेति । भुज- कोटोनामुपपत्तिरग्रे | तन्निवेशमात्रेण विग्ज्ञानमिह दर्शितम् ॥ ८-१। वा० वा० – इदानीं दिग्ज्ञानार्थमाह-वृत्तेम्भः सुसमीकृतक्षितिगत इति । तन्मत्स्यादिति । उदकेन समीकृतायां भूमावभीष्टप्रमाणं वृत्तं विलिख्य तस्य केन्द्रे कल्पितद्वादशाङ्गुलं शङ्कं निवेश्य तस्य छाया तस्मिन् वृत्ते यत्र प्रविशति पूर्वाप ( च ? ) यत्र निर्गच्छति तत्रापरपूर्वदिशौ किल भवतः । नहि प्रवेशनिर्गमकालयोः क्रान्तिस्तुल्येति भाष्ये किल शब्दः प्रयुक्तः । नन्वेकस्मिन्नहोरात्रवृत्ते इष्टानामुन्नतघटीनामग्र पूर्वाह्ने सममण्डलेन यावदन्तरं तावदेवापराह्णे तावतीनामिष्टघटीनाम भवतीति तच्छायाग्रबिन्दुभ्यां दिग्ज्ञानमुत्पद्यत एव क्रान्तिवैषम्येऽपीति चेन्मैवम् । क्रान्तिवैषम्येनाहोरात्रवृत्तभेदात् प्रवेशनिर्गम- कालीनाग्रकयोर्भेदसम्भवेन तत्कालीन प्राचीसूत्रयोरपि भेदसम्भवेन प्रवेशनिर्गमछायाग्र- बिन्दुभ्यां दिग्ज्ञानस्यायुक्तत्वात् । तस्याङ्गुली- एवं स्थूलप्राचीज्ञाने सूक्ष्मप्राचीचिह्नज्ञानार्थमुपायमाह—तत्कालापमजी- वयोरिति, भाकर्णस्तु भाकृतीनकृतिसंयुतेः पदमिति वक्ष्यते । लम्बज्याकोटौ त्रिज्याकर्ण: क्रान्तिज्यान्तरकोटौ कः कर्ण इत्यग्रान्तरम् । करणायानुपातः– यदि त्रिज्यायाः छायाकर्णाङ्गुलतुल्यान्यऽङ्गुलानि तदाग्रान्तरस्य किमिति त्रिज्ययोस्तुल्यत्वान्नाशे सर्वमुत्पद्यते । महाशङ्कोर्द्वादशाङ्गुलतुल्यत्वकल्पनेन त्रिज्यायाः छायाकर्णाङ्गुलतुल्यत्वं युक्तम् । महाशङ्कोदि द्वादशैवाङ्गुलानि तदा त्रिज्यायाः कानीति तदागतं स छायाकर्ण एव प्रत्यक्षत उपलभ्यते । लम्बज्याकोटौ त्रिज्याकर्णस्तदा स्वस्वापमज्याकोटौ कः कर्ण इत्यग्राद्वयमङ्गुलात्मकमानीयान्तरे प्राप्ते उभयत्र गुणयोर्हरयोस्तुल्यत्वेन क्रान्तिज्यान्तरमेव छायाकर्णगुणं लम्बज्याभाजितमिति लाघवेनोक्तम् ।
पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/१९७
एतत् पृष्ठम् अपरिष्कृतम् अस्ति