पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/२५७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२९१२ सिद्धान्तशिरोमणौ ग्रहगणिते

वा० भा०- रतैः सममण्डलभ्रवेशे य उक्नतकाल उदिष्टस्तस्य जीवा सा तावत्‌ प्रथम्‌- निष्टहृतिः कल्प्या । ततो द्वदशगुणयाक्षभया गुण्या पलकणवर्गेण भाज्य । सा किल स्भूला क्रान्तिवया भवति । तस्याः क्रान्तज्याया धुज्यां कुज्यां चरज्यां चरं च कृत्वथो्नतादूनयुताच्च- रेणेत्यादिनेष्टहतिः साध्या । तया पूर्वंमागता क्रान्तिज्या गुण्वा । माच्यहृत्या कल्पितया भाज्या । फलं स्फुटासन्ना करान्तिज्या भवति ।

अन्नोयपत्तिः- अत्रोन्नतकालजोवातुत्या प्रथमं तदृधृतिः कल्पता । तस्या अनुपातेन शङ्कुः । यदि पलकरणेन हादक्षकोटिस्तदा तदधृतिक्णेन फिमिति । अन्न तद्धृते्ादकञगुणः पकरणो हरः 1 फलं सममण्डलङद्कुः । पुनरु्योऽनुपातः ! यदि पलक्णेनाक्षभा भुजो लभ्यते तदा सममण्डल्राङकु स्येन कर्णेन किमिति । फलं क्रान्तिज्या स्थूला । अस्याः करान्तिज्यायाश्च- रादिकेनायोन्नतादूनयुताच्चरेणेत्यादिनेष्टहतिः साध्या । तां तदृघृति प्रकल्प्य पुनः ऋन्तिज्या साध्या । एवमसकृद्यावदविज्ेषः । ततरासकृत्कमंणि त्रेराहिकेन क्रियोषसंहारः कृतः । यदि कल्पितया हृ्येयं ऋन्तिज्या लभ्यते तदेदानोमानीतथा किमिति । एवं क्रान्तिज्या स्फुटा स्यादित्युपपन्नम्‌ । ८२-०८३ ।

इदानीं द्वितीयप्रदनस्योत्तरमाह-- ` तदा नतज्यात्रिमजीवयोयं दरगान्तरं तत्‌ परभाकृतिघ्नम्‌ । तेनोदृध्रतो व्यासदलस्य वर्गो वेदेनद्र १४४ निष्नोऽथ सरूपरन्ध्या ॥८४। व्यासार्थवर्गाहिहतात्‌ पदं स्यात्‌ क्रान्तिञ्यका" सा त्रिमरिल्जिनीष्नी । जिनांशमोर्व्या विहुता्तचायादप्रे प्रव्ये च यथा रविः स्यात्‌ ।८५।

वा० भा०--यदा सममण्डल प्रविष्टो वष्स्तवा या नतघटिकास्तासां जीवा । तस्या वर्गेण च्रिज्यावरगो रहितः । ततः पभावेण गुण्यः । तेन भाग्यः । कस्त्ि्यावगंः । क्िविधिष्टः । वेचेद्र १४४ गुणितः । तन्न यत्‌ फलं लभ्यते तेन सेकेन त्ि्यावर्गा्तादनमूलं सभ्यते सा क्रान्तिज्या स्यात्‌ । सा क्रान्तिज्या त्रिज्यागुणा जिनांशज्यया भक्ता यत्‌ फलं तस्य चापाद्यथा रविर्भवति तथाग्रे वक्ष्ये ।

अन्नोपपत्तिरव्यक्तकल्पनया । तत्न ऋरान्तिव्याप्रमाणं । यावत्तावत्‌ १ । ऋान्तिञ्यावर्गोन- स्तव्रिज्यावगो युज्याव; स्यात्‌ । याव १ न्निव १। तदा नतय्यावरगेणोनस्त्िऽ्यावरगेः सुत्रसंञस्य वेः स्यात्‌ । सूत्रं चुन्यागुणं त्रिज्याहृतं कलासंजञं स्यात्‌ । तत्र कला नाम कज्योना तद्धृतिः । अन्न वरेण वगं गुणे जेच्चेति सूत्रसंज्ञस्य वर्गेण चुज्यावर्गो गुष्यस्त्रिज्यावर्गेण भाज्य: । फलं कलावरगो भवति । तत्र कला कोटिः । क्रान्तिज्या भुजः । समकडकरुः कणः । इदं पलकषेत्रम्‌ ।


१. अत्र बापूदेवः-- पलग्रभाष्नी नतकालकोटिज्यका त्रिमज्या विहृता यदाक्षम्‌ । अक्षप्रभां तत्‌ प्रविकल्प्य साध्या पलज्यका क्रान्तिगुणः स एव ॥