पाताधिकारः ३१७ शरेणान्यगोलं नीता तदा क्रान्त्योर्योोगः कृतः । यतश्चन्द्रस्थान्यगोलेऽहोरात्रवृत्तयोरन्तरं तत् क्रान्तियोगेनैव भवतीत्युपपद्मं तत्क्रान्त्योरेकदिशोरन्तरमैक्यं विभिन्न दिशोरिति । तदकंस्या- होरात्रवृत्तं तदेव यदा चन्द्रस्याहोरात्रवृत्तं भवति तदा व्यतिपातः । अथ विषुवन्मण्डलादुत्तरतो दक्षिणतो वा यावतान्तरेण रवेरहोरात्रवृत्तं तावतैवान्तरेण विषुववृत्तादन्यदिशि यदेन्दोरहोरात्र वृत्तं भवति तदा वैधृतनामा योगः | अथ किल दक्षिण- गोले रविवर्तते । तस्य क्रान्त्यग्रे स्वाहोरात्रवृत्तं निवेश्यम् । तस्मिन् मण्डले यदि चन्द्रो भवति तवा वैधृत इति भावः । यदा पुनश्चक्रकालिकश्चन्द्र उत्तरगोले किल वर्तमानः स्वोत्तरक्रान्ते- रत्पत्वात् तस्मादहोरात्र वृत्ताद्दक्षिणतोऽन्यस्मिन्नहोरात्रवृत्ते भ्रमति तदा तयोर्वृत्तयोरन्तरं कथं ज्ञायते तदर्थं रवेदक्षिणक्रान्तितुल्येऽन्तरे विषुवन्मण्डलादुत्तरतस्तद्वृत्तं निवेश्यम् । अथवेष्टकालि- कस्य चन्द्रस्य यदन्यदहोरात्रवृत्तं तच्चन्द्रस्योत्तरक्रान्तेर । अतश्चन्द्रस्योत्तरक्रान्ते रवेदक्षिण- क्रान्तेश्च यदन्तरं तत् तयोर्वृत्तयोरन्तरम् । अथ यदि विक्षेपेण दक्षिणगोलं नीतस्तदा चन्द्रस्य स्फुटा क्रान्तिदक्षिणा वर्तते । अत्रेष्टकालिकस्य चन्द्रस्य यदन्यदहोरात्रवृत्तं तदा तस्योत्तरे निवेशि- तस्याहोरात्रवृत्तस्य चान्तरं तयोः क्रान्त्योर्योोंगे भवति । अत उक्तं तदन्यथा वैधृत इति । एवं तत्क्रान्त्योरन्तरं प्रथमसंज्ञं कल्पितम् । अस्य क्रान्त्यन्तरस्यापचीयमानस्य यदाऽभावस्तदा क्रान्ति- साम्यम् । अथ च तदपचयस्थापीयत्ता कर्तुं न शक्यते । अत इष्टकालघटिकाभिश्चालित योश्चन्द्रार्कयो: क्रान्त्यन्तरमुक्तप्रकारेण पुनः कृतम् । तस्यान्यसंज्ञा कृता । ततस्तयोराद्यान्य- योयंदन्तरं स तावतीनां घटिकानां सम्बन्धी क्रान्त्यन्तरस्यापचयः । अतस्तयोरन्तरं कृतम् । परं यद्याद्यान्यकालयोगंतं गम्यं वा लक्षणं तदेव । यदा किलाद्यकाले गतलक्षणमन्यकाले गम्यं तवा प्रथम क्रान्त्यन्तरमपचीयमानमभावं प्राप्य पुनरुपचितम् । अतस्तत्राद्यान्ययोर्योगे कृते सत्यन्तरं कृतं भवति । अतोऽनुपात: । यद्येतावता क्रान्त्यन्त रापचयेनेष्टघटिका लभ्यन्ते तदा प्रथमतुल्येन कियत्य इत्यत इष्टघटिकागुणे प्रथम आद्यान्यान्तरमक्ते या घटिका लभ्यन्ते ता स्फुटासन्ना भवन्ति । यतः प्रतिक्षणं क्रान्तिचलनं समं न भवति । अतस्ताभिर्घटिकाभिरसकृत्कर्मणा स्फुटा: कर्तुं युज्यन्त इति सर्वमुपपन्नम् ।। १०३-१४ ।। वा० वा० अथ पाताधिकारः ॥ पातो नाम क्रान्तिसाम्यम् । तत्र रविक्रान्त्या स्पष्टक्रान्तिश्चन्द्रस्य यदा स मासकालः क्रान्तिसाम्यकालः । तत्र सायनरविचन्द्रयोगे षड्रराशितुल्ये द्वादश राशितुल्ये वा मध्यमक्रान्तिसाम्यं नियतम् । ततः स्पष्टक्रान्तिसाम्यं कदेति विचार्यम् । तत्र गतपाते कियतीभिरिष्टघटीभिर्गताभिर्गम्ये गम्यघटीभिः सूर्येन्दुपातान् प्रचाल्य स्पष्टक्रा- न्त्यन्तरं साध्यम् । मध्यक्रान्तिसाम्ये यत् स्पष्टक्रान्त्यन्तरं तदाद्य संज्ञं कृतम् । तत इष्टघटोषु यत्तदन्यसंज्ञं कृतम् । यद्याद्यान्यान्तरतुल्येन क्रान्त्यन्तरेणेष्टघटिकास्तदेष्टाभिः किमित्यनुपातेन मध्यमक्रान्तिसाम्यात् स्पष्टक्रान्तिसाम्यज्ञानमुचितमित्युपायो दृष्टः । क्रान्त्यन्तरं कथं कार्यमित्युच्यते । तत्र रविचन्द्रयोर्गोलैकत्वेऽयनभेदे व्यतीपातः पातः । तत्र समगोलशरेण युता मध्यमक्रान्तिः स्पष्टा क्रान्तिः स्यात् । भिन्नगोलाल्पशरेणोना १. विधार्थमिति ग पुo |
पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/३६२
एतत् पृष्ठम् अपरिष्कृतम् अस्ति