३५२ इदानों चक्रभ्रमणव्यवस्थामाह- १ निरक्षदेशे क्षितिमण्डलोपगौ ध्रुवौ नरः पश्यति दक्षिणोत्तरौ । तदाश्रितं से जलयन्त्रवत् तथा भ्रमद्भचकं निजमस्तकोपरि ॥४८॥ उदग्दिशं याति यथा यथा नरस्तथा तथा खान्नतमृक्ष मण्डलम् । उदग्ध्रुवं पश्यति चोन्नतं क्षितेस्तदन्तरे योजनजाः पलांशकाः ।।४९। योजनसंख्या भांशैर्गुणिता स्वपरिधिहृता भवन्त्यंशाः । भूमौ कक्षायां वा भागेभ्यो योजनानि च व्यस्तम् ।। ५० । वा० भा० - उदग्दिशं याति यथा यथा नर इत्यनेनापसारयोजनैरनुपात: सूचितः । यदि भूपरिधियोजनैश्चक्रांशा लभ्यन्ते तदापसारयोजनैः किमिति | फलमक्षांशा । यदि चक्रां- शमितपरिधिना भूपरिधिर्लभ्यते तदाक्षांश: किमिति फलं निरक्षदेशस्व वेशयो रन्तरयोजनानि स्युः । शेषं स्पष्टम् । एवं निरक्षदेशात् क्षितिचतुर्थांशे किल मेरुः । तत्र नवतिः ९० पलांशाः ।। ४८-५०। 1 सिद्धान्तशिरोमणौ गोलाध्याये • अतस्तत्र ध्रुवक्षंसंस्थानमाह -- ' सौम्यं ध्रुवं मेरुगताः खमध्ये याम्यं च दैत्या निजमस्तकोर्ध्वे । सव्यापसव्यं भ्रमदृक्षचक्रं विलोकयन्ति क्षितिजप्रसक्तम् ।। ५१ । वा० भा० स्पष्टम् । कृते गोलबन्धे भगोलं परिभ्राम्येदं शिष्याय दर्शयेत् ।। ५१ । वा० वा०— भूमेः पिण्ड इति । भूमिपिण्ड: पाञ्चभौतिकः । तत्र भूमिपिण्डे चत्वारो भागाः कल्पिताः । भूभागबहुत्वामित्वव्यवहारः । ग्रहाणामेकमार्गगा- मित्वस्वीकारे भेदयोगसञ्जातबिम्बसंयोगेन परस्परगमन प्रतिबन्धात् मन्दाच्छीघ्र- ग्रहस्याग्रगामित्वोपलम्भो बाधित: स्यात् । सूर्यग्रहणानुभूतलम्बन-नत्युपलम्भश्च बाधित: स्यात् । चक्रादियन्त्रेण ग्रतोन्नतांशकला ज्ञात्वा त्रिप्रश्नोक्त्या च ज्ञात्वा तदन्तरेण यदि भूव्यासार्द्धयोजनानि लभ्यन्ते तदा गतिकलाभिः किमिति त्रैराशिकेन ग्रहाणां योज- १. ध्रुवो यतः पश्यतीति पाठान्तरम् । २. अत्र श्रीपतिः- - 'याम्योत्तरस्थौ क्षितिजाश्रित ध्रुवौ सदैव पश्यन्ति निरक्षदेशजाः ।' ३. अत्र श्रीपतिः सि० शे० १५ अ० ५४ श्लो० । 'सौम्यं हि मेषाद्यपमण्डलार्धं पश्यन्त्यमी सव्यगमेव देवाः | तुलादिकं दक्षिणमन्यदधं सदैव दैत्यास्त्वपसव्यवत्ति' ॥ सि० शे० १५ अ० ५५ श्लो० ।
पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/३९४
एतत् पृष्ठम् अपरिष्कृतम् अस्ति