भुवनकोशः ३६७ विघा १ । मुखतलविस्तारयोगः खण्डद्वयात्मकः मु० वि० १, त० वि० १ मुखतल- दैर्घ्ययोगोऽपि खण्डद्वयात्मकः । मु० दे १, त० ६ ० १ विस्तार दैर्घ्यघाते वेधगुणे जातं खण्डचतुष्टयम् । वे० मु० वि० मु० दै १, वे० मु० वि० त० दे० घा० १, वे० त० वि० मु० दै० घा १, वे० त० वि० त० ३० घा १, एतन्मुखतलयुतिजघनफलेन युक्तं मुखजघनफलयुतं तलजक्षेत्रघनफलमेव खण्डचतुध्यात्मके सर्ववापीघनफलेऽस्तीति सर्वं शोभनमुक्तम् तस्मादुपयोगाभावाद् । घनाख्यं फलमत्र न प्रतिपादितं पाटीगणितो- क्त्यैव वृत्तक्षेत्रफलघनफलपृष्ठफलानां सुज्ञानत्वात् । शेषमतीव स्पष्टम् | ५८-६१ । श्रीमत्कौङ्कणवासिकेशवसुतप्राप्तावबोधाद्बुधाद्, भट्टाचार्यसुताद्दिवाकर इति ख्याताजन प्राप्तवान् ! यः कृष्णस्तनयेन तस्य रचिते सद्वासनावात्तिके | सत्सिद्धान्तशिरोमणेर्भुवनजः कोशो गतः प्राञ्जलः ॥ इदानीं भूमेः प्रलयभेवौ प्रलयांश्चाह-- १ वृद्धिर्विधेहि भुवः समन्तात् स्याद्योजनं भूभवभूतपूर्वैः । ब्राह्मे लये योजनमात्रवृद्ध र्नाशो भुवः प्राकृतिकेऽखिलायाः ॥६२ | दिने दिने यन्त्रियते हि भूतैर्दैनंदिनं तं प्रलयं वदन्ति । ब्राह्मं लयं ब्रह्मदिनान्तकाले भूतानि यद्ब्रह्मतनुं विशन्ति ॥६३। ब्रह्मात्यये यत् प्रकृतिं प्रयान्ति सर्वाण्यतः प्राकृतिकं कृतीन्द्राः । लीनान्यतः कर्मपुटान्तरत्वात् पृथक् क्रियन्ते प्रकृतेर्विकारैः ॥६४॥ ॥ ज्ञानाग्निदग्धाखिलपुण्यपापा मनः समाधाय हरौ परेशे । यद्योगिनो यान्त्यनिवृत्तिमस्मादात्यन्तिकं चेति लय तुर्धा |॥६५॥ वा० भा० - अत्र लो नाम भूतविनाशः । स तु साम्प्रतं प्रत्यहमुत्पद्यते । स वैनंदिन उच्यते । यो ब्रह्मदिनान्ते चतुर्युगसहस्रावसाने लोकत्रयस्य संहारः स ब्राह्मो लय उच्यते । तत्राक्षी- णपुण्यपापा एव लोका: कालवशेन ब्रह्मशरीरं प्रविशन्ति तत्र मुखं ब्राह्मणाः । बाह्नन्तरं क्षत्रियाः । ऊरुद्वयं वेश्याः | पाबद्वयं शूद्राः । ततो निशावसाने पुनर्ब्रह्मणः सृष्टि चिन्तयतो मुखादिस्थानेभ्यः कर्मपुटान्तरस्वादब्राह्मणादयस्तत एव निःसरन्ति । तस्मिन् प्रलये भुवो योजनामात्रबुद्धेविलयो नाखिलायाः । अथ यदा ब्रह्मण आयुषोऽन्तस्तवा यः प्रलयः स महाप्रलय उच्यते । तत्र ब्रह्मा ब्रह्माण्डे । तत् पाञ्चभौतिके । भूर्जले । जलं तेजसि | तेजो वायौ । वायुराकाशे। आकाशमहंकारे। अहंकारो महसत्वे । महत्तस्वं प्रकृतो । एवं सकलभुवनलोका अक्षीणपुण्यपापा एवाव्यक्तं प्रविशन्ति । यदा भगवान् सिसूक्षुः प्रकृ- १. अत्र श्रीपतिः 'दिने विरिश्वस्य विवृद्धिरू: स्याद्योजनं जन्तु तृणाभिवृदया | तस्यैव रात्रौ खलु कृत्रिमाया मृदो विनाशः प्रलयाम्बुवृष्टया ॥ — शि० शे० १५ अ० २९ श्लो० ।
पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/४०९
एतत् पृष्ठम् अपरिष्कृतम् अस्ति