इदानीं केषांचिदूषणमाह -- त्रिप्रश्नवासना चन्द्रप्रभार्थमंसकृद्विधिनोदितं यत् कश्चित् कृतं खलु न सत् तदसावनत्वात् । जानन्ति ये न निपुणं गणितं सगोलं तेषां तु ४१५ तन्त्रकरणव्यसनं वृथैव ॥ ३५ । वा० भा० - व्याख्यातमेव ॥ ३५ ॥ इदानीं शङ्कुस्थानमाह - दृष्टिमण्डलभवा लवा: कुजादुन्नता गगनमध्यतो नताः । शङ्कुरुन्नत लवज्यका भवेदुग्गुणश्च नतभागशिञ्जिनी ॥ ३६ । भास्करे सममण्डलोपगे यो नरः स समशङ्कुरुच्यते । कोणशङ्करथ कोणवृत्तगे मध्यशङ्करिति दक्षिणोत्तरे || ३७ । कुपृष्ठगानां कुदलेन हीनं दृङ्मण्डलार्धं खचरस्य दृश्यम् । कुच्छन्नलिप्तानुरतो विशोध्याः स्वभुक्तितिथ्यं शमिताः प्रभार्थम् ॥ ३८ ॥ वा० भा० - दृङ्मण्डले क्षितिजादुपरि ग्रहपर्यंन्तं येंऽशास्त उन्नताः । खमध्यादधस्ते नता: । उन्नतांशानां ज्या शकुः । नतांशज्या दृग्ज्या | शङ्कुः कुच्छन्नलिप्ताभिरूनः कार्य: । द्रष्टुः कुदलेनोच्छ्रितत्वात् । अयमर्थो ग्रहच्छायाधिकारे व्याख्यात एव ॥ ३६-३८ । इदानीमग्रा मुदयास्तसूत्रं चाह -- क्ष्माजे द्युरात्रसममण्डलमध्यभागजीवाग्र का भवति पूर्वपराशयोः सा । अग्राग्रयोः प्रगुणमत्र निबद्धसूत्रं यत् तद्वदन्ति गणका उदयास्तसूत्रम् ||३९। सूत्राहिवाशद्भुतलं यमाशं याम्यां गतं हि धुनिशं कुजोवें। अधश्च सौम्यां निशि सौम्यमस्मात् सघुक्तियुक्तं नृतलं निरुक्तम् ||४० | सौम्याग्र काग्रान्नृतलं हि याम्यं याम्याग्रकाग्रात् पुनरेव याम्यम् । तदन्तरैक्यं समवृत्तखेटमध्यांशजीवां भुवि बाहुमाहुः ॥४१॥ दृग्ज्यां श्रुतिं चाथ तयोस्तु कोटिं पूर्वापरां वर्गवियोगमूलम् । वा० भा० -- क्षितिजस्वाहोरात्रवृत्तसंपातयोबंद्धं सूत्रमुदयास्तसूत्रम् | ग्रहस्थानाल्लम्ब: शङ्कुः । तस्य तलमुदयास्तसूत्राद्दक्षिणतो भवति । यतः क्षितिजादुपरि दक्षिणतोऽहोरात्रवृत्तं गतम् । अधस्तूत्तरतो गतम् । अतो निश्युत्तरं नृतलम् । अथ भुज उच्यते । उत्तरगोलेऽग्रोत्तरा नृतलं याम्यमतस्तेनोनाग्रा बाहुर्भवति । बाहुर्नाम शकुप्राच्यपरसूत्रयोरन्तरम् । यदाग्रा शङ्कुतला- दूना तदा तयोरन्तरं दक्षिणं शकुतलं बाहु: स्यात् । एवं समवृत्तप्रवेशादुपरि । दक्षिणो त्वना याम्या शङ्कुतलं च याम्यं तयोर्योगे कृते बाहु: स्यात् । रविसममण्डलयोरन्तरांशानां ज्या बाहुः । तत्र या दृग्ज्या स कर्णः । तयोवंर्गान्तरपदं पूर्वापरा कोटि: ।। ३९-४१३ । -
पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/४५७
एतत् पृष्ठम् अपरिष्कृतम् अस्ति