४३० सिद्धान्तशिरोमणौ गोलाध्याये वृत्तव्यासाधं एतावती तदाक्षज्याव्यासार्धे कियतीति । ततो छु ज्याग्रं एतावती वलनज्या तदा त्रिज्याने कियतीति । अत्र प्रथमेऽनुपाते त्रिज्या हरो द्य ज्या गुणः । तृतोयेऽनुपाते त्रिज्या गुणो द्य ज्या हरोऽतस्तुत्यत्वात् तयोर्नाशे कृते नतासूनां भुजज्याक्षजीवया गुणितोपवृत्तव्यासान भक्ता सा सूक्ष्मा वलनज्या स्यात् । अत उक्तमग्रानृतलयोर्योग इत्यादि । अथ दृष्टान्तः । यत्र किल वृषभान्तक्रान्तितुल्योऽक्षः २०१३८ । तत्र वृषभान्तस्थोऽको दिनाथें खस्वस्तिके भवति । तदा क्रान्तिवृत्तं वृङ्मण्डलाकारं स्यात् । सत्रिगृहोऽको राशिपञ्चकं सिंहान्तः । स च सदा क्षितिजे वर्तते । तत् प्राच्यपरयोरन्तरं क्षितिजे प्रत्यक्षं वलनं दृश्यते । सा च सिंहान्तस्याग्रा । तत् कथं सन्त्रिगृहात्क्रमक्रान्तिवंलनम् । अतोऽसत् । अस्मदानयनं विना नेदमग्रारूपं वलनमुत्पद्यत इत्यर्थः । अथान्यो महान् दृष्टान्तः । यत्र देशे षट्षष्टिभागा ६६ अक्षः । तत्र मेषादौ क्षितिजस्थे सर्वेऽपि राशयः समकालमेव क्षितिजस्था भवन्ति । तदा क्रान्तिवृत्तमेव क्षितिजं भवतीत्यर्थः । तत्र मेषादौ वृषभादौ मिथुनादौ वा स्थिते रवी परमं त्रिज्यातुल्यमेव स्फुटं वलनं स्यात् । यतः क्रान्तिवृत्तप्राच्युत्तरा जाता तथा विक्षेपाभावे सति तदा रवेदंक्षिणस्यां दिशि स्पर्शः | चन्द्रस्योसरस्यामित्यर्थः । एतदुक्तं भवति । तत्र देशे तस्मिन् काले तस्य त्रिज्यातुल्यस्य वलन- स्यान्यथानुपपत्त्यास्मदीयमेव वलनानयनं समीचीनम् । तत्र देशेऽक्षज्या ३१४० । मेषादिगे रवौ द्यज्या ३४३८ । चरज्यासवः | क्षितिजस्थेऽकें नतघटिका: १५ । आयनवलनचापांशाः २४ । आक्षवलनचापांशाः ६६ । स्फुटवलनस्य चापांशाः ९० । वृषादिगे रवौ द्यु ज्या ३३६६ । चर ज्यासव: १६७० । नतवटिकाः १९३८ । आयनवलनचापांशाः २१|४| अक्षजस्य ६८/५६॥ स्फुटबलनस्य चापांशाः ९६० | मिथुनादिगे द्य ज्या ३२१८ घरासव: ३४६५ । नतघटिकाः २४ । ३७ । आयनवलनांशाः १२ । ३२ | अक्षजस्य ७७ । २८ । रफुटस्य ९० । एवं सर्वत्र । अत एव प्रतिवादिनं प्रस्थाह- यत् खस्वस्तिकगे रवो भवलये दृग्वृत्तवत् संस्थिते प्रत्यक्षं वलनं कुजे त्रिभयुतार्काप्रासमं दृश्यते । त्वं चेदुत्क्रमजीवयानयसि तत् तादृक् सखे गोलविन्- मन्ये तर्ह्यमलं तदेव वलनं धोवृद्धिदाद्योदितम् ॥ यत्राक्षोऽङ्गरसा लवा दिनमणेस्तत्रोदयं गच्छतो मेषे वा वृषभेऽपि वाप्यनिमिषे कुम्भे स्थितस्यापि वा। स्पर्शो दक्षिणतस्तदा क्षितिजवत् स्यात् क्रान्तिवृत्तं यत- स्तत्ब्रूहयुत्क्रमजीवयात्र वलनं व्यासाधंतुल्यं कथम् ॥ अनेनैवोत्कम ज्यानिराकरणेन दृषकर्मापि क्रमज्यया साध्यम् । वलनमूलत्वाद्दूककर्मणोऽ- तस्तयोरेकेव वासना ।। ३०-७४ । इति श्रीभास्करीये सिद्धान्तशिरोमणिगोलवासनाभाष्ये मिताक्षरे ग्रहणवासना । वलनोपपत्तिः । वलति तद्वलनम् । द्रष्टुः सममण्डलमेव प्राची । क्रान्तिमण्डलगत्यैव ग्रहो गच्छति । ग्राह्यस्तु प्रत्यक्षेण ग्राह्य एव ग्रहणसमये । वा० वा० -- अथ
पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/४७२
एतत् पृष्ठम् अपरिष्कृतम् अस्ति