३४ सिद्धान्तशिरोमणौ गोलाध्याये अथ ब्रह्मगुप्तादिभिः कि स्पष्टो नोक्त इत्याशङ्कयाह- ब्रह्मगुप्तादिभिः स्वल्पान्तरत्वान्न कृतः स्फुटः । स्थित्यर्धपरिलेखादौ गणितागत एव हि ॥ ११ । नक्षत्राणां स्फुटा एव स्थिरत्वात् पठिताः शराः । दुक्कर्मणाज्यनेनैषां संस्कृताश्च तथा ध्रुवाः ।। १२ । वा० भा० - स्पष्टार्थम् ।। ११-१२ । अथ सदूषणानुपहसन्नाह - - शरं केचिन्मन्यते ते कुबुद्धयः । यद्येवमायनं तैश्च दृकर्मान्यैश्च किं कृतम् || १३ | किं स्पष्टे वालसू दत्तो मध्यशरश्च तैः । कोटिवद्वालनात् सूत्रात् स्पर्श मुक्तिशरौ च किम् || १४ | किंच कृत्वा शरं कोटिं स्थित्यर्धानयनं कृतम् । तादृक् चेत् स शरस्तेन नानुपातेन सिध्यति ।। १५ । वा० भा० – यदि क्रान्तिसूत्रे शरस्तदा ध्रुवाभिमुख: स्यात् । निरक्षदेशे क्षितिजस्थो ध्रुवः । ध्रुवाभिमुखशराग्रस्थो ग्रहः क्षितिजं न त्यजति । नामनोन्नामनाभावात् । किं तत्रायन- दुक्कर्मणा । अथावाचायेंः कृतं ये न मन्यन्ते तैरपि कृतं भ्रान्तत्वात् । तथा परिलेखे बिम्ब- मध्यात् स्पष्टवलनानोपरिगतं सूत्रं क्रान्तिवृत्तप्राची | तस्याः कोटिवच्छर: कि दत्तः । तत्पने ध्रुवसूत्रे नेयः । शेषं स्पष्टम् ॥ १३-१५ । अथोत्क्रमज्या निवृत्तिमाह- तत् कृतं ब्रह्मगुप्तकृतिरत्र सुन्दरी दृष्टिकर्म वलनं च केनचिद्भ्रान्तितः कथितमुत्क्रमज्यया । तदनुगैस्ततोऽपरैरन्धपूरुषपरंपरोपमैः ।। १६ । सान्यथा तदनुगैबिंचार्यते । नोद्धता कृतिरथोद्धतास्तु वा मामिका सुगणका विचार्यताम् ।। १७ वा० भा० - अत्र ब्रह्मगुप्तकृतिः सुन्दर्यपि चतुर्वेदाचा यँर न्यथा व्याख्याता | अथात्मन औद्धत्याशङ्कां मत्त्वोक्तम् । हे सुगणका इयं मामिका कृतिर्नोद्धता । अथवाऽस्तुद्धता | सम्यग्वि- चार्यंताम् । अत्र रथोद्धतेति छन्दोनामापि सूचितम् ।। १६-१७ । अथ व्यभिचारमाह - उत्क्रमज्याविधानेन दृक्कर्म वलनं तथा । यत् तैरुक्तं न तत् तथ्यं व्यभिचारोऽत्र कथ्यते || १८ |
पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/४७६
एतत् पृष्ठम् अपरिष्कृतम् अस्ति