४३६ तंत्र शुक्लत्वे कृष्णत्वे च कारणमाह - तरणिकिरणसङ्गादेप पीयूषपिण्डो दिनकरदिशि चन्द्रश्चन्द्रिकाभिच कास्ति । तदितरदिशिबालाकुन्त लश्यामलश्रीर्घट इव निजमूर्तिच्छाययैवात पस्थः ॥ १ ॥ सूर्यादधःस्थस्य विधोरधःस्थमधं नृदृश्यं सकलासितं स्यात् । दशेंऽथ भार्धान्तरितस्य शुक्लं तत् पौर्णमास्यां परिवर्तनेन ॥ २ ॥ कक्षाचतुर्थे तरणेहिं चन्द्रकर्णान्तरे तिर्यगिनो यतोऽब्जात् । पादोनषट्काष्ट लवान्तरेऽतो दलं नृदृश्यस्य दलस्य शुक्लम् ॥ ३ ॥ उपचितिमुपयाति शौक्लयमिन्दोस्त्यजत इनं व्रजत श्च मेचकत्वम् । जलमयजलजस्य गोलकत्वात् प्रभवति तीक्ष्णविषाणरूपतास्य ।। ४ । सिद्धान्तशिरोमणी गोलाध्याये अथ शृङ्गोन्नति वासना यद्याम्योदक् तपनशशिनोरन्तरं सोऽत्र बाहुः कोटिस्तूर्ध्वाधरमपि तयोर्यच तिर्यक स कर्णः । दोर्मुलेऽर्क: शशिदिशि भुजोग्राच्चकोटिस्तदग्रे चन्द्रः कर्णो रविदिगनया दीयते तेन शौक्लयम् ॥ ५॥ १. अत्र श्रीपतिः- घाम्ना धामनिधेरयं जलमयो धत्ते सुधादीधितिः सद्यःकृत्तमृणाल कन्दविशदच्छायां विवस्वद्दिशि | हर्म्ये धर्मघृणे: करैघंट इवान्यस्मिन् विभागे पुन बलाकुन्तलकालतां कलयति स्वेच्छां तनोश्छायया || ३. अत्र ज्ञानराज:-- . सि० शे० १० अ० २ श्लो० । २. अर्धबिम्बसदृशे सिते विधो: खण्डिते वपुषि चार्धजीवया । रूपमुद्वहति लोललोचना भालपट्टभवमेणलाञ्छनः ।। सि० शे० १० अ० २६ श्लो० । मानुश्चेत् प्रतिबिम्बितो जलमयो शीतांशुगोले दिवा निस्तेजा निशि सुप्रभः कथमथो कि सूर्यबिम्बासमः । गोलार्धे रवि सोज्ज्वलं च सकलं न स्यात् तडागे यथा मासार्धेऽखिलदृश्यतेति गणकान् ज्ञानाह्वयः पृच्छति ॥
पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/४७८
एतत् पृष्ठम् अपरिष्कृतम् अस्ति