सिद्धान्तशिरोमणी गोलाध्याये वा० भा० – अत्र दशभिः शुल्बस्य पलेरित्यादि यद्घटीलक्षणं कैश्चित् कृतं तद्युत्तिःशून्यं दुर्घटं चेत्येतदुपेक्षितम् । दृष्टप्रमाणाकारसुषिरं पात्रं घटीसंज्ञमङ्गीकृतम् | धुनिशनिमज्जनसंख्यया यदि षट्त्रिंशच्छतानि पानीयपलानि लभ्यन्ते तदेकेन निमज्जनेन किमिति त्रैराशिकम् । इति घटोयन्त्रम् ॥ ८ ॥ ४४२ वा० वा०—'घटीयन्त्रमाह - घटदलरूपा घटितेति । एतदेव कपालयन्त्रमिति सौरेऽभि हितम् ॥ ८ ॥ सत्र्यंशमाषत्रयनिर्मिता या हेम्न: शलाका चतुरङ्गला स्यात् । विद्धं तथा प्राक्तनमत्र पात्रं प्रपूर्यंते नाडिकयाम्बुना तत् || १. अत्र लल्लः - दशभि. शुल्वस्य पलैः पात्रं कलसार्द्धसन्निभं घटितम् । मुख समघटवृत्तं दलोच्छ्रायम् ॥ ३४ ॥ सत्र्यंशमाषकत्रयकृतनलया समसवृत्तया हेम्नः । चतुरङ्गुलया विद्धं मज्जति विमले जले नाडया ॥ ३५ ॥ अथवा स्वेच्छाघटितं घटीप्रमाभिः प्रसाधितं भूयः । त्रैराशिक सिद्धं वाङ्गुलवद्गुरुविपुलरन्ध्रं यत् ॥ ३६॥ इष्टदिनाद्धंघटीभिः सममथवापं निमज्जति घटी सा । षष्ठं : शर्तस्त्रिभिर्वा विशतिलध्वक्षरासूनाम् ॥ ३७ ॥ शि० वृ० गो० ७ अ० ३४-३८ श्लो० । अन्यच्च ब्राह्मस्फुटसिद्धान्ते - घटिका कलशार्धाकृतिताम्रं पात्रं तलेऽपृथुच्छिद्रम् | मध्ये तज्जलमज्जनषष्ट्या द्युनिशं यथा भवति ॥ अपि च सिद्धान्तशेखरे- २२ अ० ३७ श्लो० । शुल्वस्य दिग्मिविहितं पलैर्यत् षडङ्गुलोच्चं द्विगुणायतास्यम् । तदम्भसा षष्टिपल : प्रपूयं पात्रं घटार्धंप्रमितं घटी स्यात् ।। १९ ।। सत्र्यंशमाषत्रयनिर्मिता या हेम्न शलाका चतुरङ्गुला स्यात् । विद्धं तथा प्राक्तनमत्र पात्रं प्रपूर्यंते नाडिकायाऽम्बुना तत् ॥ २० ॥ १९ अ० १९-२० । एवश्व सिद्धान्तसुन्दरे -- घटदलघटिता घटीनिरुक्ता तलसुषिरा पलषष्टितश्चपूर्णा । मुरजसममथाद्दका च यन्त्रे दलसुषिरं शरवच्च शर्कराख्यम् || २३ || १९ अ० २ श्लो० ।
पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/४८४
एतत् पृष्ठम् अपरिष्कृतम् अस्ति