अथ शङ्कुमाह- समतलमस्तक परिधिर्भ्रमसिद्धो दन्तिदन्तजः शङ्कुः । तच्छायातः प्रोक्तं वा० भा० – स्पष्टम् । इति शङ्कुयन्त्रम् ॥ ९ । वा० वा०—'नरयन्त्राख्यं शङ्कयन्त्रमाह- समतलमस्तकपरिधिरिति ॥ ९ । अथ चक्रमाह - चक्रं चक्रांशाङ्क परिधौ श्लथशृङ्खलादिकाधारम् | । धात्री त्रिभ आधारात् कल्प्या मात्र भार्धं च ।। १० । तन्मध्ये सूक्ष्माचं क्षिप्त्वार्काभिमुखनेमिकं धार्यम् । भूमेरुन्नत भागास्तत्राक्षच्छायया भुक्ताः ।।११ । १. अत्र लल्लोक्तिः शिष्यधीवृद्धिदे- यन्त्राध्यायः तत्खार्धान्तश्च नता उन्नतलवसंगुणीकृतं युदलम् । युदलोन्नतांशभक्तं नाड्यः स्थूलाः परैः प्रोक्ताः ॥ १२ । २ तथा च ब्राह्मस्फुटसिद्धान्ते - - ज्ञानं दिग्देशकालानाम् ।। ९ । भ्रमसिद्धः सममूलाग्रपरिधिरति सुगुरुसारदारुमयः । रज्जुव्रणराजिलाञ्छनस्तथा च समतलः शङ्कः ॥ ३१ ॥ वृत्तः षडङ्गुलानि द्वादशदीर्घश्चतुभिरवलम्बैः । स्थाप्यः सुसमः प्रथमं जलेन च सुसमीकृते फलके ।। ३२ ।। छायास्य बहिः परिर्धा गोपुच्छसं स्थिते केन्द्रात् । छायाग्राच्छङ्क्वग्रप्रापी कर्णो भवेत्तिर्यक् ।। ३३ ।। अन्यच्च सिद्धान्तशेखरे- मूले द्वयङ्गुलविपुल: सूच्यग्रो द्वादशाङ्गुलोच्छ्रायः । शङकुतला ग्रविद्धोऽग्रवेधलम्बाहजुज्ञेयः २. अत्र परवाक्यम्- ४४३ ८ अ० ३१ ३३ श्लो० । ।। १९ अ० १८ श्लो० । भ्रमविरचितवृत्तस्तुल्यमूलाग्रभागो द्विरदरदनजन्मा सारदारूद्भवो वा । गुरु ऋजुरवलम्बादत्रणः षट्कवृत्तः समतल इह शस्तः शङ्कुरर्काङ्गुलः स्यात् ॥४८॥ २२ अ० ३५ श्लो० । इष्टोन्नतांशा युदलेन निघ्ना मध्योन्नतांशविहृताश्च नाड्यः । दिनस्य पूर्वापरभागयोश्च याताश्च शेषाः क्रमशो भवन्ति ॥
पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/४८५
एतत् पृष्ठम् अपरिष्कृतम् अस्ति