पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/४९१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यन्त्राध्यायः समभूमिमथापि चिह्नद्वयान्तरं सप्तसमाहतञ्च | सूर्याहतं वा निजमानयुक्तं कृत्वा वदेदीप्सिततुङ्गताङ्ग्यः ॥ ४४९ यन्त्रराजे प्रत्यंशं सप्ताङ्गुलद्वादशाङ्गुलशङ्कुच्छाया: सिद्धा एव कृताः सन्तीति तदभिप्रायेण कोष्टद्वितयाच्छायाँ ग्राह्येत महेन्द्रसूरिणोक्तं उन्नतांशेभ्यः छायाद्वयं सम्पाद्य तुङ्गता वा ज्ञेया । नक्षत्राणामगस्त्यादीनां ध्रुवका बाणाश्च नक्षत्रध्रुव- काधिकारोक्ता एवं ग्राह्या: । एतदेव नक्षत्रजातं यन्त्रे निवेश्यं त्रैवर्णिकैरेतान्येव नक्षत्राणि परिचीयन्ते। नहि यवनपरिचितैः किञ्चित्प्रयोजनमस्माकम् । अपरिचितानां वेधायोगेनानर्थंक्यापत्तेः। दृक्कर्मापि प्रागुक्तमेव ग्राह्यं यवनसम्मतं तूपेक्षणीयम् । महेन्द्रसूरिणा प्रकारद्वयेन यवनमतमाश्रित्य दृक्कर्मोक्तं तत्र प्रथमप्रकार: सुतरामयुक्त एव । रोहिण्युदाहरणादन्यनक्षत्रदृक्कर्मानयने महदन्तरितत्वाद्युक्तिशून्यत्वाच्च । अत्रोपपत्तिरुच्यते--गोलाद्यथा कालादिज्ञानं संपद्यते तदविसंवादेन यन्त्रा- न्तरात्सम्पादनीयमिति यन्त्रराजात्सम्पादितम् । गोलस्थमेरुचिह्नात् कर्काहोरात्रं रसाङ्गांशैर्भवति। मेषादिद्युरात्रं नवतिभागैर्मकरादिद्युरात्रं परमार्कापमयुक्तनवति- भागेरेव भवति । तत्राऽत्र यन्त्रे त्रिशन्मितमेव मकरवृत्तं कल्पितम् । मेषवृत्तप्रमाणमनुपातेन । परार्कक्रान्तिज्यायुक्तत्रिज्यया त्रिशल्लभ्यन्ते तदा परार्कक्रान्तिज्योत्थद्युज्यया किमिति मेषप्रमाणं भवति १९।३८ । ननु मेषादिद्युज्यायास्त्रिज्यातुल्यत्वेनेच्छास्थाने त्रिज्या ग्रहीतुं युज्यते न परमार्कक्रान्तिज्योत्थद्युज्येति चेत् । सत्यम् । गोले त्वेवमेव | यन्त्रस्य वृत्तक्षेत्रत्वेन परमक्रान्त्युत्थद्युज्यैव ग्राह्या | यन्त्रस्य मेरुस्थानात् खगुणपरिणतपरार्कक्रान्तिज्या- तुल्ये याम्यसूत्रे क्रान्तिवृत्तकेन्द्रमिति खगुणपरिणतपरार्कक्रान्तिज्या भुजः । यत्र केन्द्रात् क्रान्तिवृत्तस्थमेषादिचिह्नं प्रति नीयमानं पूर्वापरसूत्रशकलं खगुणपरिणतषट्- षष्टिभागज्या कोटि: । खगुणपरिणतत्रिज्याक्रान्तिवृत्तकेन्द्राद् वृत्तस्थमेषादिचिह्नं यावत्सूत्रं कर्णः । इदं क्षेत्रं यन्त्रोपरि प्रत्यक्षतो दृश्यत इति परार्कक्रान्तिज्योत्थ- ज्यैव गृहीता । गोलस्थमेषादिर्येन मार्गेण भ्रमति तद्गोले मेषादिद्यु रात्रवृत्तं तथा यन्त्रस्थमेषादिर्येन मार्गेण याति यद्यन्त्रस्थमेषादिद्युरात्रमिति न कोऽपि दोषः । एवं कर्कादिद्युरात्रवृत्तेष्वपि वेद्यम् । तस्मात् परार्कक्रान्तिज्योत्थद्युज्या खगुणा परार्कक्रान्तिज्यायुक्तत्रिज्याभक्ता | [ 'मेषप्रमाणं भवतीति सिद्धम् । महेन्द्रसूरिणा तु कोटिभवोत्क्रमज्या त्रिंशद्गुणापक्रमकोटिमौर्वीहतेति गौरवेण ] मेषप्रमाणमानीतम् । तत्रोपपत्तिः--परमापक्रमोत्थद्युज्यैवात्र कोटिशब्देनोच्यते । पूर्वं सिद्धौ यौ गुणहरौ परक्रान्यिकोट्युत्क्रमज्यया गुणितौ जातं गुणस्थाने परक्रान्तिकोट्य- त्क्रमज्याद्युज्याघातः । हरस्थाने कोटिक्रमज्यावर्ग: । अत्र भुजज्या शब्देन परार्क- १. अयमंशः खपुस्तकेनोपलभ्यते । सि०- ५७