सिद्धान्तशिरोमणी गोलाध्याये एवं कृते यानि प्रमाणानि तानि विगणय्य ग्राह्याणि । तेषां त्रिज्योत्थवृत्तेऽक्ष- पत्रवत्कृतवृत्ते परिधौ यावद्धनुरंशास्ते शीघ्रफलांशा वेद्याः । एवं मन्ददो: फलानामेव तद्वृत्ते धनुरंशा मन्दफलांशाः भवन्ति । एवं जिनज्योत्थवृत्ते सायनांशग्रहभुजं दत्त्वा यज्ज्याद्धं भवति तस्याक्षांशवत्कृतवृत्ते धनुरंशा मन्दफलांशाः भवन्ति । एवं जिनज्यो- त्थवृत्ते सायनांशग्रहभुजं दत्त्वा यज्ज्यार्द्धं भवति तस्याक्षांशत्रत्कृतवृत्ते धनुरंशाः क्रान्त्यंशाः । एवं चन्द्रपरमशरज्यातो वृत्तं कार्यं तेन चन्द्रशरांशज्ञानं क्रान्त्यंशवत् । ४५६ एवं त्रिज्योत्थवृत्तेऽक्षपत्रवत्कृतवृत्ते भौमादिसपातमन्दस्पष्टभुजज्या वेद्या | सा स्वस्वपरमशरगुणा शीघ्रकर्णभक्ता शरः स्यात् । एवं कुशाग्रबुद्धयो यन्त्रादेव दशा- धिकारगणितमानयन्ति । वामनसुतचक्रधरेण त्रिंशज्जीवायुक्ततुरीययन्त्राद् त्रिंशदङ्कयुक्तपट्टीयुक्तात् सप- श्चांशसूर्याङ्गुलैः कृतक्रान्तिवृत्तात् सम्पादिताष्टादशजीवायां सम्पादितसार्द्धसप्तवि शत्यङ्कात्कृतस्वषष्ट्यंशयुक्ताक्षभाग्रात् सलम्बसूत्रात् कृतकर्णद्वयसम्पादितच्छिद्रद्वयात् खार्द्धक्षितिजभूमिकृतसङ्केतात् सर्वमप्यानीतम् । एतत्तुरीयन्त्रस्य यन्त्रचिन्तामणिरिति नामकृतम् । अत्र यत्क्रान्तिवृत्तं तद्भुजाग्रस्थपट्योः युतिज्याग्रतोऽग्रेऽपमांशाः भवन्ति । स्वषष्ट्यंशयुक्ताक्षभाग्रे तु केन्द्राज्यका तद्युतार्कोऽपमांशस्थपटयाः' । भुजाग्रस्थपटयंकसक्तज्यकाग्रावधि स्याच्चरं तज्यका चाङ्गुलानि । बहिः खाच्चरमन्तश्च मेषतुलारसभस्थसायनरवी क्रमेण देयम् । अष्टादशीया जीवा चाङ्गुलाङ्कास्ति तस्यामक्षप्रभा देया तदग्रस्थकेन्द्रावलम्बात् । पलं वा कुजं वा नभो लम्बभागास्तयोरुत्क्रमज्या क्रमज्ये च वेद्ये । पलांशा यमाशोत्क्रमज्या युतिः कौ प्रदेया कुजात् तज्ज्यकाग्रे द्युपट्टी | ज्ञेया दक्षिणगोले युतिरुत्तरगोलेऽन्तरमक्षांशापमांशोत्क्रमजीवयोर्युतिश- ब्देनोच्यते । केन्द्रोर्ध्वरन्ध्रेण यथाऽतेज: माजोर्ध्वरन्धं प्रविशेत् तथा धृते | यन्त्रचिन्तामणौ धार्यं च केन्द्रादवलम्बभागज्या दृग्ज्यका स्यान्नतशिंजिनी वा । नतज्यकास्पृक् दिनपट्टिकाङ्कश्चरज्यया हीनयुतश्च कार्यः ॥ तदङ्कतुल्यक्षितिमौर्विकाग्रं चरार्द्धतश्चोन्नतनाडिकाः स्युः । तदग्रं नता नाडिका क्ष्माजतः स्युविलोमाथ तज्ज्या चरज्योनयुक्ता द्युपट्यास्तदङ्केन सक्तज्यकाग्रे, रवि कल्पयेच्छङ्कभागाः स्वमर्कात् ॥ इति चक्रधरेण कालादिज्ञानं युक्तियुक्तमुक्तम् । ध्रुव भ्रमयन्त्राद्रात्रिगतघटीज्ञानं लग्नादिभावचतुष्टयज्ञानं नार्मदात्मजपद्म- नाभेनोक्तम् | ध्रुवतारका स्थिरैवास्ति । तस्यास्त्रयोदशतारकाभिर्मत्स्य इव प्रकल्पितो १. यन्त्रचि ० ६ श्लो० । २. यन्त्रचि० ८-१० इलो० ।
पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/४९८
एतत् पृष्ठम् अपरिष्कृतम् अस्ति