सिद्धान्तशिरोमणी गोलाध्याये लब्धं रामनखाद्रिलोचनरसत्र्यद्वि २९३६२७२०३ निघ्नं ततः । पञ्चाद्रित्रिनवाद्रिसागरयुगच्छिद्राग्निभिः ३०४४७९३७५ संभजे- च्छेषं स्याद्युगणो हरेण स युतो यावद्भवेदीप्सितः || १५ । अस्योदाहरणम्- पञ्चत्रिंशदहो सखे दिविषदां चक्रादिशेषाणि या- न्येषां सावमशेषमैक्यमपि यद्धीवृद्धिदे जायते । तत् तष्टं कुदिनैः खखेषुभरविच्छिद्रेन्द्र १४९१२२७५०० तुल्यं गुरो- रिन्दोर्वाह्नि कुजस्य वा वद यदा कीदृग्युपिण्डस्तदा । १६ । वा० भा० – धीवृद्धिदे तन्त्रे ग्रहाणां चक्रादिशेषाणि मिलितान्यवमशेषयुतानि च १४९१२२७५०० । एतानि किलोद्दिष्टानि चतुर्भिविभज्य लब्धं रामनखाद्रिलोचनरसत्र्यद्विभिः २९३६२७२०३ संगुण्य पञ्चाद्रित्रिनवाद्रिसागरयुग च्छिद्राग्नि ३९४४७९३७५ भिविभज्य शेषमहगंणो जातः खखाभ्रदिङ्मितः १०००० । अयं जातः कुजदिने । द्विगुणे हरे क्षिप्ते जातः सोमवासरे ७८८९६८७५० । त्रिगुणे क्षिप्ते जातो गुरुदिने ११८३४४८१२५ । ● अत्रोपपत्तिः – एको हरश्चेद्गुणको विभिन्नावित्यनेनैव । अत्र गुणकाविति द्विवचनमुपल- क्षणार्थम् । तेन बहुगुणानामैक्यं गुणो भवति । अग्राणा मैक्यमग्रम् । तद्यथा | रूपमहर्गणं प्रकल्प्य ग्रहाणां चक्राविशेषाण्यानीय तेषामैक्यं युगावमयुतं भाज्य: कल्प्य: । कुदिनानि हरः | उद्दिष्टषट्- त्रिशच्छेषाणां योग ऋणक्षेपः । एषां भाज्यहारक्षेपाणां चतुभिरपवर्तः कृतः । ततो लाघवार्थं रूपशुद्धौ लब्धं रामनखाद्रीत्यादिस्थिरकुट्टकः कृतः' ।। १३-१६ । ४९० वा० वा०—यः षट्त्रिंशच्छेषाणामैक्यं कुदिनतष्टं दृष्ट्वा ग्रहानहर्गणांश्च वदति तत्प्रशंसामाह–चक्राग्राणीति । षट्त्रिंशत् सहितानीति | अत्र सूत्रमाह - उद्दिष्टं क्वहतष्टमिति । अत्राहगणप्रमाणं यावत् । या १ दि कल्पकुदिनैः कल्पग्रहभगणास्तदा यावत्तावता किमिति सप्तग्रह भगणेषु गुणकत्वेन गृही- तेषु लब्धयः प्रत्येकग्रहगतभगणाः शेषाणि तत्तद्ग्रहभगणशेषाणि भवन्ति । एवं कल्पकुदिनैस्तत्तद्ग्रहाणां कल्पभगणजनिता राशयोंऽशा: कलाविकलाश्च लभ्यन्ते तदाहर्गंणेन किमिति ग्रहाणां कल्पादितो गतराशयो गतांशा गतकलिकागत- विकलिकाश्च भवन्ति । अत्र शेषाणि राश्यादिशेषाणि भवन्ति । एकैकग्रहस्य पञ्च- शेषाणीति सप्तानां पञ्चत्रिंशच्छेषाणि पञ्चत्रंशदनुपातैर्भवन्ति । सर्वत्राहर्गणो गुणः १. बापूदेवोक्तः प्रश्न:- सूर्येन्दुसौरयो मध्याः समा भूत्वा पुनः कदा । भवेयुस्तादृशा एव विचक्षण वद द्रुतम् ॥ अस्य भङ्गश्च - 4 कल्पे येऽर्काब्जयोर्योोगा ये च तीक्ष्णांशुमन्दयोः । ते केनचितु समेनैव विधेया अपवर्तिताः || तत्र प्रथमलब्धेन समानैः शशिमासकैः । सूर्येन्दुसौरयो मध्या भवेयुस्ते पुनः समाः ॥
पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/५३२
एतत् पृष्ठम् अपरिष्कृतम् अस्ति