५०१ तस्मिन् गोले आत्मतीर्थचिह्नोपरि ध्रुवद्वयलग्नं याम्योत्तरवृत्तं कार्यम् । एव- मात्मतीर्थंचिह्नात् सममण्डलविदिग्वलयादिविन्यासः सुधिया कार्यः । आत्मतीर्थीयं क्षितिजमपि निवेशनीयम् । आत्मतीर्थंचिह्नात्तदधः स्थितचिह्नप्रोतं दिङ्मण्डलं च निवेशनीयम् । तत् 'कृतदिङ्मण्डलं गोलस्थकाशीस्थचिह्नोपरि नेयम् । तस्मिन्नीते सति चक्रांशकाङ्कतदात्मतीर्थक्षितिजे प्राक्स्वस्तिकदृङ्मण्डलयोरन्तरांशा दिगंशका ज्ञेयाः । भूपरिधियोजनाङ्कदृङ्मण्डले आत्मतीर्थवाराणसीचिह्नयोरन्तरे योजनानि बालैरपि बुध्यन्ते । पूर्वप्रकारेणापि ज्ञायन्ते । एवं नगरद्वयाक्षांशज्ञानेऽपसारयोजनज्ञाने च दिग्ज्या ज्ञानं विलोमगणितेन । पूर्ववत्प्रष्टव्यपुराक्षांशज्यावधिस्थपुराक्षकर्णगुणा द्वादशभक्ताग्रा कल्प्या | द्वादशकोटौ पलभा भुजस्तदापसारयोजनलवकोटिज्यया किमिति शङ्कतलम् । पूर्वानीताग्रासंस्कृतं भुजः स्यात् । यद्यपसारयोजनलवज्यातुल्यया दृग्ज्ययायं भुजस्तदा त्रिज्यया किमिति दिग्ज्या भवति । तद्धनुदिगंशाः ॥ २५-२७ | अथान्यदु दाहरणम् - प्रश्नाध्यायः -- क्षितिपरिधिषडंशे प्राचि धारानगर्या- स्त्रिनयनदिशि यद्वा पत्तने चाग्निभागे । कथय गणक तत्र क्षिप्रमक्षांशकान् मे के तत्र तत्र || २८ | वा० भा० – धारायामक्षप्रभा ५ | पलकर्ण: १३ | अत्रापसारयोजनलवाः षष्टिः ६० । तद्दोर्ज्या २९७७ । कोटिज्या १७१९ | दिग्ज्यायाः प्राच्यामभावः । तस्माद्भुजज्या पूर्णमेव अतः कोटिज्या पलभा ५ गुणा । अक्षकर्णा १३ सा | फलस्य चापमक्षांशाः । एवं प्राच्यां गतस्या- क्षांशाः ११ । ५ । ० । ईशान दिशं गतस्य दिग्ज्या २४३१ | दोर्ज्या दिग्ज्यागुणा त्रिज्याभक्ता कार्या । कोटिज्या तु पलभा ५ गुणा द्वादशभक्ता कार्या । तयोर्योगो द्वादशगुणः पलकर्ण १३ हृतः फलस्य चापमक्षांशाः ४९ | १८ | २४ । ईशान्यां गतस्य । एवमाग्नेय्यां च २१ । ५४ । ३४ । अथ त्र्यंशेऽपसारे लवाः १२० । एषां दोर्ज्याकोटिज्ये एते एव २९७७ । १७१९ । यथोक्त- करणेन जाता: प्राच्यां पलांशाः १९ | ५ | ० | ऐशान्याम् २१ । ५४ | ३४ | आग्नेय्याम् ४९ । १८ । २४ । - तत्र अत्रोपपत्तिः - गोले खस्वस्तिकादिच्छादिक चिह्नोपरि दृङ्मण्डलं निवेश्यम् । स्वस्वस्तिकं स्वस्थानं कल्प्यम् । ततोऽपसारलवाग्रे दृङ् मण्डले पुरचिह्नं कार्य॑म् | ध्रुवात् पुर चिह्नोपरि नीयमानं वृत्ताकारं सूत्रं यत्र विषुवन्मण्डले लगति तत्पुरचिह्न योरन्तरं तस्मिन्पुरे पलांशाः । अथ तज्ज्ञानार्थमुपाय: | अपसारयोजनलवानां दोः कोटिज्ये कृते दिग्लवानां च दिग्ज्या | ततोऽनुपात: । यदि त्रिज्यामितया दोर्ज्यया दिग्ज्याभुजो लभ्यते तदापसारलवज्यया किमिति । फलं पुरसममण्डलयोरन्तरं याम्यो ज्यारूपम् । स भुजः । पुरविषुववृत्तयोर्यावदन्तरं तावतैवान्तरेण सर्वत्र विषुववृत्तादुत्तरतोऽन्यत् स्वाहोरात्रवृत्तं निवेशनीयम् । तस्य क्षितिजेन
पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/५४३
एतत् पृष्ठम् अपरिष्कृतम् अस्ति