मध्यमाधिकारे कालमानाध्यायः वा० वा०–वेदाङ्गत्वाद्धिजैरवश्यमध्ये तव्यमिति विवक्षुस्तावदस्य वेदाङ्गत्वे हेतुमाह वेदास्तावदिति । ननु कालस्योद्द श्यत्वेन विधिसम्बन्धाभावात् कथं कर्मशेषत्वम् । काले हि कर्म चोद्यते न कर्मणि काल इति । सत्यम् । न कर्मणि कालचोदना' तथापि-पौर्णमास्यां पौर्णमास्यां यजेत, इत्यादौ तूपादेयमपि कर्मस्वरूपं न विधेयं पूर्वप्राप्तत्वात् । तद्रूप- मेव प्रत्यभिज्ञायत इत्यनुवाद्यम् । तस्य चोद्देश्येनापि कालेन सम्बन्धमात्रमप्राप्तमिति तन्मात्रं विधीयत इति । एतदेव कालस्य विधेयत्वं नाम, विधेयत्वाच्चाङ्गत्वसिद्धिः तस्माद्वेदप्रतिपाद्यस्य कर्मणो ज्योतिः शास्त्रप्रतिपाद्यः कालोऽङ्गम् । प्रतिपाद्ययोः
- शेषशेषित्वं प्रतिपादकयोरप्युपचर्यत इति वेदस्य ज्योतिः शास्त्रमङ्गमिति सम्यगुक्तम् ।
प्रत्यक्षो वाऽनुमितो वा वेदो भवतु तत्र नास्माकमाग्रहः । इदं वेदमात्राङ्गम् । स्मृतिपुराणेतिहासप्रतिपादितकर्मापि काले विधेर्यामत्यनुमितवेदस्यापि ज्योतिःशास्त्र- मङ्गम् । तिथ्यादिकालनिर्णयशास्त्रमपि ज्योतिश्शास्त्राधीनम् । तथा चाह सूत्रकृत् 'वेदा हि यज्ञार्थमभिप्रवृत्ताः कालाश्रयास्ते 'क्रतवो निरुक्ताः । तस्मादिदं कालविधानशास्त्रं यो ज्योतिषं वेद 'सवेद यज्ञम्' || इति । अत्र यज्ञशब्दो होमदानजपाद्युपलक्षणार्थ: । यतस्तान्यपि कालविशेषे विधी- ॰यन्ते । ‘कालशब्दोऽपि दिगाद्युपलक्षणार्थः । तस्यापि ज्योतिः शास्त्रप्रतिपाद्यत्वा- त्कर्मानुष्ठानोपयोगित्वाच्च ॥ ९ ॥ तत्र वेदरूपपुरुषस्य कानि कान्यङ्गानीत्याह शब्दशास्त्रमिति | ज्योतींषि ग्रहनक्षत्राण्यधिकृत्य कृतो ग्रन्थो ज्योतिषम् ( अधिकृत्य कृते ग्रन्थे ) इति सूत्रात् । ज्यौतिषमेव तस्माच्चक्षुरित्येवमादिषु आद्यैर्बुधैरित्यनेन प्रमाणो- पन्यासः कृतः ॥ १० ॥ अथास्याङ्गमध्येऽभ्यर्हितत्वे युक्तिमाह । वेदचक्षुरिति ॥ ११ ॥ वेदाङ्गत्वादवश्यमध्येतव्यम् तद् द्विजैरेव न शूद्रादिनेत्येतत्प्रतिपादयति । १. प्रेरणा इत्यर्थं, यतः 'चोदना लक्षणोऽर्थो धर्म' इति मीमांसासूत्रस्मरणात् । २. तु क ख ग पु० ३. अङ्गाङ्गीभावत्वमिति तात्पर्यम् । ५ तो ख पु० । तथेदानीं ज्योतिषवेदाङ्ग द्वितीयचरण: 'कालानुपूर्वा विहिताश्च यज्ञाः ' एवं प्राप्यते । किन्तु सिद्धान्तशेखरे - 'क्रतुक्रि यार्थं श्रुतयः प्रवृत्ताः कालाश्रयास्ते क्रतवो निरुक्ताः | शास्त्रादमुष्मात् किल कालबोधो वेदाङ्गतामुष्य ततः प्रसिद्धाः ।' इति । एवमेव वृद्धवसिष्ठ - सिद्धान्तेऽपि केवलचतुर्थचरणे 'वेदाङ्गमुख्यत्वमित प्रसिद्धम्' इति पाठान्तरमुपलभ्यते । ७. बिधीयते ख पु० । ६. अयं नास्ति ख पु० । ८. कालब्देपि ख पु० । ९. कस्या क ख पु० । ४. वेदा ख पु० ।