पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/५६७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रश्नाध्यायः गणकैः सोपराधो मम क्षन्तव्य इत्याह – ये वृद्धा इति । परोक्तिदूषणावश्यकत्वे हेतुमाह- कर्त्तव्ये स्फुटवासनाप्रकथने पूर्वोक्तिविश्वा- सिनामिति ॥ ५८-६० । ५२५ आसीत् सह्यकुलाचलाश्रितपुरे विद्यविद्वजने नानासजनधाम्नि विजडविडे शाण्डिल्यगोत्रो द्विजः । श्रौतस्मार्त विचारसारचतुरो निःशेषविद्यानिधिः साधूनामवधिर्महेश्वरकृती दैवज्ञचूडामणिः || ६१ । तञ्जस्तच्चरणारविन्दयुगलप्राप्तप्रसादः सुधी- मुग्धोद्बोधकरं विदग्धगणकप्रीतिप्रदं प्रस्फुटम् । एतद्वथक्तसदुक्तियुक्तिबहुलं हेलावगम्यं विदां सिद्धान्तग्रथनं कुबुद्धिमथनं चक्रे कविर्भास्करः ॥ ६२ । केचित् पिपठिषन्त्येनं प्रश्नाध्यायं हि केवलम् । तदर्थं लिखिता अत्र प्रश्नाः प्राग्गदिता अपि ।। ६३ । प्रश्नानमून् प्रपठतो गणकस्य गोलकन्दोल्लसत्सरलयुक्तिशतप्रवालैः । प्रश्नोत्तरार्थपरिचिन्तनवारिसिक्तमुलामला मतिलता समुपैति वृद्धिम् ||६४ | वा० भा० - स्पष्टार्थम् ॥६१-६४ इतिश्रीमहेश्वरोपाध्यायसुतभास्कराचार्यविरचिते सिद्धान्त शिरोमणिवासनाभाष्ये मिताक्षरे गोलाध्यायः समाप्तः । अत्र गोलाध्याये ग्रन्थसंख्या २१०० । वा० वा० – अथ ग्रन्थसमाप्त्यलङ्कारमाह- आसीदिति । तज्ज इति । सह्यकुलाचलो महाराष्ट्रदेशेऽस्ति । विदर्भापरपर्यायवराडदेशादपि निकट एव वरीवत्ति गोदावर्या अपि नातिदूरे प्रदेशे । जडविडे ग्रामे । अधुनापि विडमिति तन्नगरनामास्ति । यजुर्वेदशाखाध्यायी इति प्रसिद्धः शाण्डिल्यगोत्रो ब्राह्मणो महेश्वराचार्यो महामहो- पाध्याय: श्रौतस्मात्तविचारसारचतुर आसीदिति स्पष्टम् । सिद्धान्तग्रथनं भास्करश्चक्रे । कुबुद्धिमथनमिति विशेषणम् । अत्र चक्रे इति प्रयोगः शिष्टसम्प्रदायागत इत्यदोषः । यन्त्राध्याय प्रश्नाध्याय- योरुपपत्तिप्रतिपादकत्वेन गोलाध्यायान्तर्गतत्वमपि युक्तम् । प्रश्नपाठकस्य बुद्धिविवृद्धिमुपैतीत्याह– प्रश्नानमूनिति । अत्रान्ते वृद्धिशब्दो मङ्गलार्थः । गणितं हि द्विविधम् - ग्रहगणितं गोलगणितं चेति । वासनोपयोगित्वेन व्यक्ताव्यक्तगणित गोलान्तर्गत इत्याहुः ॥ ६१-६४। श्रीमत्कौङ्कणवासिकेशवसुतप्राप्तावबोधाद्बुधाद्- भट्टाचार्य सुताद्दिवाकर इति ख्याताजनि प्राप्तवान् । यः कृष्णस्तनयेन तस्य रचिते सद्वासनावात्तिके, सत्सिद्धान्तशिरोमणेरयमगात् प्रश्नाधिकारः स्फुटः ॥