सिद्धान्तशिरोमणी गोलाध्याये अथ ज्योत्पत्तिः । आचार्याणां पदवीं ज्योत्पच्या ज्ञातया यतो याति । विविधां विदग्धगणकप्रीत्यै तां भास्करो वक्ति ॥ १ ॥ इष्टाङ्गुल व्यासदलेन वृत्तं कार्यं दिगङ्कं भलवाङ्कितं च । ज्यासंख्ययाप्ता नवतेलवा ये तदाद्यजीवाधनुरेतदेव ।। २ । द्वित्र्यादिनिघ्नं तदनन्तराणां चापे तु दत्त्वोभयतो दिगङ्कात् । ज्ञेयं तद्ग्रद्वयबद्धरज्जोरर्धं ज्यकाधं निखिलानि चैवम् ।। ३ । अथान्यथा वा गणितेन वच्मि ज्यार्धानि तान्येव परिस्फुटानि । त्रिज्याकृतिोंर्गुणवर्गहीना मूलं तदीयं खलु कोटिजीवा ॥ ४ ॥ दोः कोटिजीवारहिते त्रिभज्ये तच्छेषके कोटिभुजोत्क्रमज्ये । ज्याचापमध्ये खलु योऽत्र बाणः सैवोत्क्रमज्या सुधियात्र वेद्या ।। ५ । त्रिज्याधं राशिज्या तत्कोटिज्या च षष्टिभागानाम् । त्रिज्यावर्गार्धपदं शरवेदांशज्यका भवति ।। ६ । त्रिज्याकृतीषुघातात् त्रिज्याकृतिवर्गपञ्चघातस्य । मूलोनादष्ट हृतान्मूलं षट्त्रिंशदशज्या ।। ७ । गजहयगजेषु ५८७८ निघ्नी त्रिभजीवा वायुतेन १०००० संभक्ता | ५२६ षट्त्रिंशद राजीवा तत्कोटिज्याकृतेषूणाम्' || ८ | त्रिज्याकृतीषुघातान्मूलं त्रिज्योनितं चतुर्भक्तम् । अष्टादशभागानां जीवा स्पष्टा भवत्येवम् ।। ९ । क्रमोत्क्रमज्याकृतियोगमूलाद्दलं तदर्धांशकशिञ्जिनी स्यात् । त्रिज्योत्क्रमज्यानिहतेदलस्य मूलं तदर्भांशकशिञ्जिनी वा ।। १० । १. अत्र बापूदेव: - त्रिज्यकृतीषुधातान्मूलं राशित्रयज्यया युक्तम् । सविहृतं च चतुर्भिर्वेदाक्षलवज्यका भवति ॥ यद्वाष्टादशभागज्यकयाढ्या त्रिशदंशज्या | वेदाशुगभागज्या तत्कोटिज्याङ्गरामाणाम् ॥ २. अत्र बापूदेवोक्ताऽध राज्या कोटिज्यानयनप्रकार :- त्रिज्याभुजज्या हतिहीनयुक्ते त्रिज्याकृती तत्पदयोदँले ये । तर्योवियोगो भुजखण्डजीवा योगो भवेद्दोदँलकोटिमौर्वी ॥ अत्र श्रोम० देवसतीथ्ये॑न विनायकशास्त्रिणोक्तोऽध शिकोटिज्यानयनविधिः- विशोध्य खाष्टेन्तुलवेभ्य इष्टान् भुजांशकान् व्यस्तगुणो य एषाम् । या स्यात् ततोऽमीटभुजाधंजीवा सा कोटिजीवेष्टभुजाधंजाता ॥
पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/५६८
एतत् पृष्ठम् अपरिष्कृतम् अस्ति