पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/५७२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५३० सिद्धान्तशिरोमणौ गोलाध्याये त्रिसप्तपञ्चभिः ५७३ र्भाज्या | तयोरैक्यं तदग्रज्या । अन्तरं पूर्वज्या स्यात् । यथा त्रिज्याधं त्रिंशत्संख्याकं ज्यार्धम् ३० | ततः समासभावनयैर्कात्रंशत्संख्यम् ३१ । तस्माद् द्वात्रिंशत्संख्य- मित्यादि । अन्तरभावनया त्वेकोनत्रिंश २९ मष्टाविंश २८ मित्यादि । पूर्णं दोय कोटिज्यां च प्रकल्प्य प्रथमं १ खण्डमेवं षष्टि ६० स्यात् । अथ यदि सेव त्रिज्या चतुविशतिर्ज्यार्थानि तदर्थंमाह — कोटिजीवाशताभ्यस्तेत्या- दि। अत्रापि त्रिज्याधंमष्टमं ८ ज्याधं सा भुजज्या । षोडशं १६ कोटिज्या सा कोटिज्या शतगुणा गोदत्रतिथि १५२९ भाजिता । या तु दोर्ज्या सा तु निजेन सप्ताङ्गदेवां-४६७ शेन होना कार्या| यदि तयोरैक्यं क्रियते तदा नवमं ९ ज्याधं भवति । यद्यन्तरं तदा सप्तमं ७ स्यात् । एवं समासभावनया नवमाद्दशमं १० दशमादेकादश ११ मित्यादि । तथान्तरभावनया सप्तमात् षष्ठं ६ षष्ठात् पञ्चम ५ मित्यादि । एवं प्रथमं १ सप्तांशोनत- स्ववस्त्रमितं भवति । अथवा पूर्ण० दोर्ज्या त्रिज्यां च कोटिज्यां प्रकल्प्य साध्यते तथापि तदेव । यतः समासभावनया द्वितीयादीन्य खिलानि भवन्ति । अथवा त्रिज्यां बोज्य प्रकल्प्य पूर्ण कोटिज्यां च प्रकल्प्य साध्यते तदा त्रयोविंश २३ मुत्पद्यते तस्मादन्तरभावनया द्वाविंशम् २२ । ततोऽप्येवंशम् २१ । एवमखिलान्यपि निष्पद्यन्ते । अथ भावनामाह–चापयोरिष्टयोरित्यादि । इष्टयोश्चापयोर्ये ते कर्मभूमौ स्थाप्ये । तयोरवस्तात् कोटिज्ये च । ततः प्रथमकोटिज्या द्वितीयदोज्यंया गुण्या । ततो द्वितीयको- टिज्या प्रथमदोज्यंया गुण्या द्वळे अपि त्रिज्यया भाज्ये | फलयोः समासश्चापैक्यभुजस्य ज्या भवति । अन्तरं चापान्तरस्य ज्या भवति । एवं सिद्धज्यातोऽन्यज्यासाधने भावना | तद्यथा | तुल्यभावनया प्रथमज्याधंस्य प्रथमज्यार्थेन सह समासभावनया द्वितीयम् २ द्वितीयस्य द्वितीयेनेवं चतुर्थं ४ मित्यादि । अथातुल्यभावनया। द्वितीयतृतीययोः समासभावनया पञ्चमम् ५ । अन्तरभावनया प्रथमं १ स्यादित्यादि । अष्टासा ज्याज्ञानार्थमाह-आद्यज्याचापभागानामित्यादि । यावद्भिरंशेरेका ज्या लभ्यते त आद्यज्याचापांशाः । प्रतिभागज्यका विधिरिति । त्रिसप्तपञ्चभि: ५७३ भक्त त्यादिना प्रागुक्तप्रकारेणैकभागस्य ज्यामानीय तद्भावनातो भागद्वयस्यैवं तेषां भागान ज्या साध्या साभीष्टत्रिज्यया हता वस्वनलाब्धिवह्निभिः ३४३८ भक्ता प्रथमज्या स्यात् । तस्यास्तयैव सह भावनया द्वितीयाद्याः सिध्यन्ति | इतिज्योत्पत्तिवासना ॥१-२५॥ || समाप्तोऽयं सिद्धान्तशिरोमणिर्वासनाभाष्यसहितः || वा० वा० – अथ ज्योत्पत्ति प्रतिजानीते – अत्राचार्याणां पदवीमिति । स्पष्टगतिवासनायां प्रतिपादिताया ज्योत्पत्तेः पुनः प्रतिपादनं दोषावहमिति- नाशङ्कनीयम् । संक्षेपविस्तृतिप्रतिपादनपरं पौनरुक्त्यं प्रयोजनैक्येऽपि न दुष्यतीति प्रागुतत्वात् । इष्टाङ्गुलव्यासदलेनेति । द्वित्र्यादि निघ्नमिति । अथान्यथेति । दोःकोटिजीवेति । त्रिज्यार्द्धमिति | व्याख्यातचरमेतत् ।