मध्यमाधिकारे भंगणाध्यायः अथ समायां भूमावभीष्टकर्कटकेन त्रिज्यामिताङ्क रङ्कितेन वृत्तं दिगङ्कितं भगणांशैश्चाङ्कितं कृत्वा तत्र प्राचीचिह्नाद्दक्षिणतो नातिदूरे प्रदेश उत्तरेऽयने वृत्तमध्यस्थितेन कीलेन रवेरुदयो वेध्यः । ततोऽन्तरं वर्षमेकं रव्युदया गणनीयाः । ते च पञ्चषष्टयधिकशतत्रय - ३२५ तुल्या भवन्ति । तत्रान्तिमोदय: पूर्व दयस्थानादासन्नो दक्षिणत एव भवति । तयोरन्तरं विगणय्य ग्राह्यम् । ततोऽन्यस्मिन् दिने पुनरुदयो वेध्यः । स तु पूर्वचित्रत एव भवति । तदप्युत्तर- मन्तरं ग्राह्यम् । ततोऽनुपात: । यद्यन्तरद्वितयकलाभिरे कोकृताभिः षष्ट - ६० घटिका लभ्यन्ते तदा दक्षिणेनान्तरेण किमिति ' । अत्र लभ्यन्ते पञ्चदश घटिकास्त्रिशत् पलानि सार्धानि द्वाविंशतिविपलनि १५ । ३० | २२ । ३० । आभिर्घटीभिः सहितानि पञ्चषष्ट्यधिकशतत्रय- तुल्यानि सावन दिनान्येक स्मिन् रव्यब्दे भवन्ति ३६५ | १५ | ३० | २२ । ३० । ततोऽनुपातः । यद्येवेन वर्षेणैतावन्ति कुदिनानि तदा कल्पवर्षैः किमिति । एवं ये लभ्यन्ते ते सावन दिवसा भवन्ति कल्पे | अथ तैरेव रवेवर्षान्तः पातिभिः कुदिनैश्चक्रकला लभ्यन्ते तदैकेन किमिति । फलं मध्यमा रविगतिरित्युपपन्नम् । अथ चन्द्रभगणोपपत्तिः । तत्रादौ तावद्ग्रहवेधार्थं गोलबन्धोक्तविधिना विपुलं गोलयन्त्रं कार्यम् । तत्र खगोलस्यान्तर्भगोल आधारवृत्तद्वयस्योपरि विषुववृत्तम् । तत्र च यथोक्तं क्रान्तिवृत्तं भगणांशाङ्कितं च बद्ध्वा कदम्बद्वय कीलकयो: प्रोतमन्यञ्चलं ग्रहवेधवलयम् । भगणांशाङ्कितं कार्यम् । ततस्तद्गोलयन्त्रं सम्यग्ध्रुवाभिमुखयष्टिकं जलसमक्षितिजवलयञ्च यथा भवति तथा स्थिरं कृत्वा रात्रौ गोलमध्यचिह्नगतया दृष्ट्या रेवतीतारां विलोक्य क्रान्तिवृत्ते यो मोनान्तस्तं रेवतीतारायां निवेश्य मध्यगयेव दृष्ट्या चन्द्र विलोक्य तद्वोधवलयं चद्रोपरि निवेश्यम् । एवं कृते सति वेधवृत्तस्य क्रान्तिवृत्तस्य च यः संपातस्तस्य मोनान्तस्य च यावदन्तरं तस्मिन् काले तावान् स्फुटचन्द्रो वेदितव्यः । क्रान्तिवृत्तस्य चन्द्रबिम्बमध्यस्य च वेधवृत्ते यावदन्तरं तावास्ति- स्य विक्षेपः । ततो यावतीषु रात्रिगतघटिकासु वेध: कृतस्तावतीष्वेव पुनद्वतोयदिने कर्तव्य: । एवं द्वितीयदिने स्फुटचन्द्र ज्ञात्वा तयोर्यदन्तरं सा तद्दिने स्फुटा गतिः । अथ तौ चन्द्रौ "स्फुट- ग्रहं मध्यखगं प्रकल्प्य" - इत्यादिना मध्यमौ कृत्वा तयोरन्तरं सा मध्यमा चन्द्रगतिः । तयाऽनुपात: यद्येकेन दिनेनंतावती चन्द्रगतिस्तदा कुदिनैः किमित्येवं चन्द्रभगणा उत्पद्यन्ते । तथा चाह श्रीमान् ब्रह्मगुप्तः । ' ज्ञातं कृत्वा मध्यं भूयोऽन्यदिने तदन्तरं भुक्तिः । त्रैराशिकेन भुक्त्या कल्पग्रहमण्डलानयनम् " ॥ ३१ एवमन्येषामपि भगणोपपपत्तिः । अथ चन्द्रोच्चस्य | एवं प्रत्यहं चन्द्रवेधं कृत्वा स्फुटगतयो विलोक्या: । यस्मिन् दिने गते : परमाल्पत्वं दृष्टं तत्र दिने मध्यम एव स्फुटचन्द्रो भवति तदेवोच्चस्थानम् । यत उच्चसमे ग्रहे फलाभावो गतेश्च परमाल्पत्वम् । ततश्च तस्माद्दिनादारभ्यान्यस्मश्चन्द्रपर्यये प्रत्यहं चद्रवेधात् १. अत्र तात्कालिकगतिविवेचनयाऽग्रान्तरानुपातो भास्करीयो युक्तियुक्त इति । २. ब्रा० सि० १९ अ० १२ श्लो० ।
पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/७६
एतत् पृष्ठम् अपरिष्कृतम् अस्ति