सिद्धान्तशिरोमणौ ग्रहगणिते - वा० भा० - एषामुपपत्तिः प्रोगेवोक्ता । एकस्मिन् रविवर्षे यावन्तो भभ्रमाः स्युस्तावन्त एवंकोना रविसावनदिवसा भवन्ति । यतो रविः प्राग्गत्या एकं पर्ययं गतः । अतो भगणसंख्य- योना भभ्रमाः क्वहा भवन्ति । एवमन्येषामपि ग्रहाणां कुदिनानि स्युरित्युपपन्नम् ॥ ९ ॥ अथाधिमासान् न्यूनाहाँरचाह । ५० लक्षाहता देवनवेषुचन्द्राः १५९३३००००० कल्पेऽधिमासाः कथिताः सुधीभिः । • दिनक्षयास्तत्र सहस्रनिघ्नाः खबाणबाणाश्व्यहिखेषुदस्रा: २५०८२५५०००.० ॥ १० ॥ वा० भा० – अत्रोपपत्तिः । अत्र प्रकृतास्तावद्रविमासास्तेभ्यश्चान्द्रमासा यावद्भिरधिका- स्तेऽधिमासा उच्यन्ते । एवं प्रकृतानां सावनानां चान्द्राणां चान्तरमवमान्युच्यन्ते । सावनदिनेभ्य- श्चान्द्राहा यावद्भिरधिकास्ते दिनक्षयाः । अतस्तेषामन्तर मेतावद्भवतीत्युपपन्नम् ॥ १० ॥ इदानीमधिमासेन्दुविनावमानि प्रकारान्तरेणाह | रवेः कोटिनिघ्नाः कृताष्टेन्दुबाणा: ५१८४००००००० सुराग्न्यब्धिरामेषवो लक्षनिघ्नाः ५३४३३३०००००। शशाङ्कस्य मासाः पृथक् सूर्यमास- विहीनास्तु कल्पेऽथ वा तेऽधिमासाः ।। ११ ।। अधिदिनैर्दिनकृद्दिनसञ्चयः सहित इन्दुदिनान्यथ तानि वा । विरहितानि च तानि दिनक्षयैः क्षितिदिनान्यत उत्क्रमतोऽपरम् ।। १२ ।। वा० भा० – एवमनया वासनया पठिताकं चन्द्रमासान्तरमधिमासाः । किं पाठेनेति वा शब्दार्थः । एवमधिमासदिनैः सहिताः सौराहाश्चान्द्राहा भवन्ति । कि तत्पाठेन वा । तेऽवमैरूना: क्वहाः स्युः ।। ११-१२ ॥ वा० वा० - एषां वासना भाष्ये स्पष्टा ॥ ८-१२ ॥ इदानीं प्रकारान्तरेण चान्द्रमासान् दिनक्षयांश्चाह | अन्तरं तरणिचन्द्रचक्रजं यद्भवेत् स विधुमाससञ्चयः । चन्द्रचक्रदिवसैक्यमृनितं चन्द्र मासभदिनैदिनक्षयाः ॥ १३ ॥ वा० भा०- - पूर्वाधंस्य वासना प्रागेवोक्ता | अथ चन्द्रचक्रदिनैक्ये चन्द्रमासभदिनैक्येन वर्जिते क्षयाहाः स्युः । अत्र वासना | चन्द्रभगणा रविभगणरूनाइचन्द्रमासाः स्युः । अतो विपर्ययाच्चन्द्रमा- सोनाश्चन्द्रभगणा रविभग भवन्ति । तैरूना भभ्रमा: सावनदिवसा भवन्ति । तैरूनाइचा- न्द्राहाः क्षयाहा भवन्ति । एतदव्यक्तस्थित्या लिख्यते । चंमा चंभ १ । एते किल रविभगणाः ।
पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/९५
एतत् पृष्ठम् अपरिष्कृतम् अस्ति