एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एकाक्षरात्पादादेकैकाक्षरवृदध्या पादैः छन्दः स्यात्‌ । कि यावद्रतं षटू विंशत्यक्षरमुत्कृतिं यावत्‌ ।

तदुर््वं चण्डवृष्टयादि दण्डकाः” परिकीर्तिताः । १८८१)

षडविंशत्याक्षरोत्कृतिजातेरू्ध्वं चण्डवृष्टप्रभृतयो दण्डकाः भवन्ति । शेषमिति प्रकरणम्‌ । तच्च शास्त्रान्तरेक्योऽवगन्तव्यम्‌ । ग्रन्थगौरवभयात्केदारेणात्र नोक्तम्‌ ।

गाथासिभिः षड्भिश्चरणैश्वोपलकषिताः ॥ १८८२)

शेषं जातिप्रकरणानन्तरं त्रिपद्यः षट्पद्यो गाथाः स्युः ।

अथ छन्दसां जातीराह ।

उक्तात्युक्ता तथा मध्या प्रतिष्ठाऽन्या सुपूर्विका । गायत्रयुष्णिगनुष्टप्‌ च बृहती पंक्तिरेव च ॥ १९ ्रषटेप्‌ च जगती चैव तथाऽतिजगती मता ।

शर्करी सातिपूर्वा स्यादष्ट्यत्यष्टी ततः स्मृतेः ॥ २० धृतिश्चातिधृतिश्चैव कृतिः प्रकृतिराकृतिः ।

विकृतिः सङ्कृतिश्चैव तथाभिकृतिरुत्कृतिः ॥ २१ इत्युक्ता छंदसां संजाः क्रमशो वच्मि साम्प्रतम्‌ । लक्षणं सर्ववृत्तानां मात्रावृत्तानुपूर्वकम्‌ ॥ २२

एकाक्षरा उक्ता । ट्व्यक्षरा अत्युक्ता । त्यक्षरा मध्या । चतुरक्षरा प्रतिष्ठा । पंचाक्षरा सुप्रतिष्ठा । षडक्षरा गायत्री । सपतक्षरा उष्णिक्‌ । अष्टाक्षरा अनुष्टुप्‌ । नवाक्षरा बृहती । दशाक्षरा पंक्तिः । एकादशाक्षरा करष्टप्‌ । द्वादशाक्षरा जगती । त्रयोदशाक्षराऽतिजगती । चतुर्दशाक्षरा शर्कैरी । पंचदशाक्षरा अतिशर्करी । षोडशाक्षरा अष्टिः । सप्तदशाक्षरा अत्यष्टिः । अष्टादशाक्षरा धृतिः । एकोनविंशत्यक्षरा अतिधृतिः । विंशत्यक्षरा कृतिः । एकविंशत्यक्षरा प्रकृतिः । दवाविंशत्यक्षरा आकृतिः । त्रयोविंशत्यक्षरा विकृतिः । चतुर्विंशत्यक्षरा संकृतिः । पंचविंशत्यक्षरा अभिकृतिः । षडविंशत्यक्षरा उत्कृतिः । इति छदसां संजा उक्ताः ।


५ पाठे दण्डका ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:SukavihRdayAnandinI.djvu/१२&oldid=371565" इत्यस्माद् प्रतिप्राप्तम्