एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयो गणो द्विगुरुरेव पंचमश्चादिगुरुरेवेति” निश्चयः । शेषं यथा प्रोक्तम्‌ । सा आर्या चपला नाम यथा ।

चपलाक्षि मौनमुद्रा” त्यजेति संभाषिता मया सुतनुः ।

संजातरोमहर्षी बभूवात्युत्सुका तन्वी ॥ ५

आदं दलं समस्तं भजेल्लक्ष्म चपलागतं यस्याः । शेषे पूर्वजलक्ष्मा मुखचपला सोदिता मुनिना ॥ £

यस्या आर्याया आद्यं दल्रमर्धं समस्तमपि चपलाया लक्षणं भजेत्‌ । शेषे उत्तरार्थे पूर्वक्तलक्षणा सा मुखचपला नाम । यथा ।

यस्यात्सिराचितांगी* (?) तलघुस्तनी पिंगलाक्षियुगला च ।

मुखचपला पुरुषाकृतिरतिदीर्घकृशा परित्याज्या ॥ ६

प्राक्प्रतिपादितमर्ध प्रथमे प्रथमेतरे तु चपलायाः । लक्ष्माश्रयेत सोक्ता विशुद्धधीभिर्जघनचपला ॥ ७

या आर्या प्रथमेऽ्थै प्राक्प्रतिपादितं पूर्वमुक्तं लक्षणमाश्रयेत्‌ प्रथमेतरे तु उत्तरार्धं तु“ चपलाया लक्षणं सा जघनचपला उक्ता विशुद्धधीभिर्निर्मलबुद्धिभिः । यथा । कुचितलोचनयुगलं समदनमदमोदसुंदरालम्‌* । सुरतं स्मरामि तस्या मृगीदशोः जघनचपलायाः ॥ ७

॥ आर्याप्रकरणम्‌ ॥

आर्याप्रथमदलोक्तं यदि कथमपि लक्षणं भवेदुभयोः । दलयोः कृतयतिशोभां तां गीतिं गीतिवान्भुजङ्गेशः ॥ ८ आर्यायाः प्रथमेऽर्धे यदुक्तं लक्षणं तद्यदि दयोरप्यर्धयोर्भवति तां गतिमिति गीतवान्‌

उक्तवान्‌ भुजंगेशः पिंगलनागः । यथा | रोमांचं जनयंती सुखयंती नेत्रयोर्युगं। यूनाम्‌ ।


^ पाठे "तृतीयो गणो दिगुरुरेव तृतीयो गणो द्विपचमश्चादिगुररेवेति निश्चयः" । ” पाठे चपलाक्षमौनमुद्रां ।

" पाठे अस्पष्टमेव ।

"पाठेतुन।

४ कछदोभङ्गः दृश्यते ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:SukavihRdayAnandinI.djvu/१६&oldid=371569" इत्यस्माद् प्रतिप्राप्तम्