18
षड्विषमेऽ्टौ समे कलास्ताश्च समे स्युर्नो निरन्तराः ।* न समाऽत्र पराश्रिता कला वैतालीयेऽन्ते” रलौ गुरुः ॥ १२
सिंहावलोकितन्यायेन (तृतीययुग्दक्षिणान्तिके'त्यादिसूत्रपठितः पादशब्दोऽत्र दृष्टव्यः | पैगलीयसूत्रपादशब्दोपादानात् । यथा "वैतालीयं द्विःस्वराऽयुक्पादेषु सर्वोऽन्तला" इति । यत्र विषमे पादे प्रथमे तृतीये षट्कला मात्रा भवन्ति समे पादे द्वितीये चतुर्थे अष्टौ कला भवन्ति । अन्तेऽवसाने रगणलघू गुरुः" च भवतस्तदततं वैतालीयं नाम । उत्सर्गेण यथा । क्वचित्प्राये गुरुलघुभावेऽपवादमाह । न समाऽत्र पराश्रिता कलेति । समा द्वितीयचतुर्थीदिका पराश्रिता तृतीयपंचमायाश्रिता न भवति । समे पादे द्वितीये चतुर्थे निर्गतम॑तरं” व्यवधानं यासां ता निरन्तरा अंतररहिता लघवो न भवेयुरित्यर्थः । यथा ।
प्रविशत्यनिशं निरर्गला सुपरित्यक्तविभूषणांशुका ।
विरहे तव सा वरांगना वैतालीयमुवाह विभ्रमम् ॥ १२
पर्यन्ते र्यौ तथैव शेषं ओपच्छदसिकं सुधीभिरुक्तम् । १३
षण्णामष्टानां च कलानां पर्यन्तेऽवसाने यँ रगणयगणौ भवतः । शेषं पूर्ववत्तदा वैतालीयमेव ओपच्छंदसिकं नाम । यथा |
बहूविप्रियकारकं परोक्ष प्रत्यक्षे प्रियचाटुकारदक्षम् ।
शठवृत्तमिमं द्रुतं वयस्ये ओपच्छदसिकं विमुञ्च कान्तम् ॥ १३
आपातलिका कथितेयं भाद्ररुकावथ पूर्ववदन्यत् । १४
ध्यदा षड़विषमेऽष्टौ समे कला" इत्यादि सर्वं पूर्ववद्भवति । विशेषोक्तौ भगणात्परौ गौ गुरू भवतः तदा वैतालीयमेवापातलिका‡ नाम । यथा ।
“पाठेस्मेस्युनो। “ पाठे षड्विषमेऽष्टौ समेष्टौ समेऽष्टौ समे कलास्ताश्च समे स्यु नो निरन्तराः । ४ पाठे वैतालीयंते । “' वृत्तरत्नाकर २.१५ तृतीययुग्दक्षिणांतिका समस्तपादेषु द्वितीयलः । % पिंगलसूत्र ४.३२ वैतालीयं दविःस्वरा अयुक्पादे युग्वसवोऽन्तेर्लगाः । % पाठे रगणालघुगुरु । % पाठे निर्गतमंतरे । ° पाठे तानितरा । % पाठे कालरा |