एतत् पृष्ठम् अपरिष्कृतम् अस्ति

20

पूर्वोक्तयोरुदीच्यप्राच्यवृत््योः समौ सदृशौ ओजयुग्मकौ विषमसमौ पादौ यदा भवतः तदा वैतात्रीयमेव प्रवृत्तकं स्यात्‌ । यथा ।

प्वृत्तकान्ते दुःरश्मिभि्व्याप्तमंबरमिदं“ विलोक्यताम्‌ ।

गृहाण ताम्बूलमुत्तमं कोपमाशु विजहीहि कोपने” ॥ १८

अस्य युग्मरचिताऽपरान्तिका । १९

अस्य प्रवृत्तकस्य समपादकृता समपादलक्षणयुक्तैश्वतुर्भिः पादै रचिता अपरान्तिका नाम | यथा |

तुगपीवरघनस्तनालसा चासुकुण्डलवती मृगेक्षणा ।

पूर्वचन्द्रवदनाऽपरान्तिका चित्तमुन्मदयतीयमगना ॥ १९

अयुग्भवा चारुहासिनी । २०

प्रवृत्तकस्यैव विषमपादलक्षणयुक्तैश्वतुर्धिः पादैः रचिता चारुहासिनी नाम यथा । न कस्य चैतः समन्मथं करोति सा सुंदराकृतिः । विचित्रवाक्योक्तिपण्डिता विलासिनी चारुहासिनी ॥ २०

॥ वैतालीयप्रकरणम्‌ ॥

वक्त्रं नाद्यान्नसौ स्यातामन्धर्यो अनुष्टभि ख्यातम्‌ । २१

“पादः इत्यनुवर्तते । अनृष्टभ्यष्टाक्षरायां जातौ पादस्य चतुर्थादक्षराद्यो यगणो यदा भवति तदा वक्त्रं नाम वृत्तं ख्यातं कथितम्‌ । अन्धेरिति निर्विंशेषणत्वेनाद्यादक्षरान्नगणसगणौ न भवतः । यथा । अपाण्डुगण्डमाकर्णविशालनयनं सुभ्रु ।

विरहे चारुसर्वाग्यास्तस्याः स्मराम्यह वक्त्रम्‌ ॥ २१

युजोर्जेन सरिद्धरतुः पथ्यावक्त्रं प्रकीर्तितम्‌ । २२

युजोः समपादयोर्चतुर्थादक्षराज्जेन जगणेन परेण वक्त्रमेव पथ्येति कीर्तितम्‌ । यथा ।


% पाठे दुरश्मिभिर्व्यासमंबरमिदं । पाठे कोपेने । % पाठे जातो ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:SukavihRdayAnandinI.djvu/२०&oldid=371586" इत्यस्माद् प्रतिप्राप्तम्