एतत् पृष्ठम् अपरिष्कृतम् अस्ति

22

सैतवस्येति निवृत्तम्‌" । "चपलावक्त्रमयुजोर्मकारश्वत्पयोराशेरित्यनुवर्तते । "यस्यां लः सप्तमो युग्मे सा युग्मविपुला मते'ति सर्वमनुवर्तनीयम्‌ । अयुक्पादयोः प्रथमतृतीययोश्चतुर्थ्यादक्षरात्परयो यगणं बाधित्वा भगणश्चद्रवति तदा भेनोपलक्षिता विपुला स्यात्‌ भविपुलरत्यर्थः । यथा ।

विशालाक्षी कामगजकुम्भाम्भविपुलस्तनी ।

मध्यक्षामा हसगतिः कस्य न स्याद्रतिप्रदा ॥

अयुजोरिति जातिपक्षे दयोरपि पादयोर्गरहणम्‌ व्यक्तिपक्षे पुनरेकस्य । एकपक्षे पुनः प्रथमस्य तृतीयस्य वा तथा चाहूर्महाकवयः"*

"वटे वटे वैश्रवणश्चत्वरे चत्वरे शिव" इति ।

'्यस्य प्रभाद्भुवनं शाश्वते पथि तिष्ठतीति ।

"उपस्थितं प्राञ्जलिना विनीतेन गरुत्मता" इति महाकविप्रयोगाः । २७

इत्थमन्या रश्वतुर्थात्‌ । २८

इत्थं पूर्वक्तप्रकारेणायुक्पादयोश्चतुर्थादक्षरात्परतो रगणो भवति तदा रविपुला स्यात्‌ । यथा ।

तथा जितः शत्रुवर्गौ राजन्‌ बाहुबलेन ते ।

सहान्तःपुरो यथाऽसौ ततार विपुला नदी ॥

व्यक्तिपक्षे प्रथमपादे यथा |

[महाकविकालिदासवस्वाग्देवतागुरुम्‌ ।

यज्ञाने विषयाभ्यान्ति दर्पणे प्रतिबिम्बवत्‌ ।५९

तृतीयपादे यथा ।

कामिनीभिः सह प्रीतिः" कस्य नाम न रोचते |

यदि न स्याद्वारिवीचिचचलं "५ हत जीवितम्‌ ॥ इति । २८


^" पाठे निवृत्त । "५ पाठे वाहूर्महाकवयः | ^" अग्निपुराणम्‌ ३०५.१४ वटे वटे वैश्रवणं चत्वरे चत्वरे शिवम्‌ । पर्व्वते पर्व्वते रामं सर्व्वत्र मधुसूदनम्‌ ॥ "0 छदोभङ्गः दृश्यते । ^° रघुवंशम्‌ १०.१३ मुक्तशेषविरोधेन कुलिशत्रणलक्ष्मणा । उपस्थितं प्राञ्जलिना विनीतेन गरुत्मता ॥ 106 पाठनिर्धीरणे अशक्तोऽस्मि । "01 पाठे प्रीति ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:SukavihRdayAnandinI.djvu/२२&oldid=371588" इत्यस्माद् प्रतिप्राप्तम्