एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रतिष्ठायाम्‌

म्गौ चेत्कन्या । ५

चेद्यदि पादे मगणगुरू भवतः तदृत्तं कन्या नाम । यथा । कामक्रीडारूढायासा ।

एताः कन्या कीट्श्यास्ताः ॥

तथा च ।

सर्वेषां यः सामान्यर्दिः ।

तस्येशस्स्ताद्भूयो वृद्ध्यै ॥ ५

सृप्रतिष्ठायाम्‌

$गौ गिति पक्तिः | ६

यत्र भगणो द्रौ गुरु भवतः तदत्त पक्तिनीम भवति । यथा । व्योमनि नीलां नीरदपक्तिम्‌ । वीक्ष्य विपन्नाः प्रोषितवध्वः ॥ ६

गायत्रयाम्‌

त्यौ स्तस्तनुमध्या । ७

यत्र तगणयगणौ भवतः तदृतं तनुमध्या नाम । यथा । कस्यापि महद्भिः पुण्यैरनुकूला । श्यामा तनुमध्या गेहे भवति स्त्री ॥ ७

शशिवदना न्यौ | ८

यत्र नगणयगणोौ भवतस्तदृत्त शशिवदना नाम । यथा । मलयजलेपः कुवलयशय्या । दहति वियोगे शशिवदनायाः ॥ ८

30

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:SukavihRdayAnandinI.djvu/३०&oldid=371595" इत्यस्माद् प्रतिप्राप्तम्