36
यत्र तगणौ द्वौ जगणौ गुरू च तदृतं इन्द्रवज्रा नाम । यथा । स्यादिन्द्रवज्रादि कर्कशं मे
चेतो यदीये विरहागमेऽस्मिन् ।
नूनं तदानीं यदि तद्वियोग-1‰
सतापसयत्सहनक्षमः स्याम् ॥ ३२
उपेन्द्रवज्रा जतजास्ततो गौ । 3३
यत्र जगणतगणजगणा द्वौ गुरू च तदृत्तं उपेन्द्रवज्रा नाम । यथा । उपेन्द्रवज्रादि महाभिघाता
प्रयान्ति नाशं स्मरतो नरस्य |
अहर्निशं त्वां विजितामरेश^”
श्रीकृष्ण विष्णो्मुरु मे प्रसादम् ॥ 33
अनंतरोदीरितलक्ष्मभाजौ पादौ यदीयावुपजातयस्ताः । इत्थं किलान्यास्वपि मिश्चितासु स्मरन्ति जातिष्विदमेव नाम ॥ ३४
न विद्यन्तेऽन्तरं व्यवधानं यस्य तदनंतरं उदीरितमुक्तं लक्ष्म लक्षणम् । भजत इति यस्याः पादौ तावनंतरोदीरितभाजौ इन्द्रवजोपेन्द्रवज्रयोरित्यर्थः । इत्थममुना प्रकारेणान्यास्वपि उक्ताप्रभृतिषु जातिषु मिश्रितास्विदमेवोपजातिं नाम स्मरन्ति वदन्ति कछटोविदः । यथा ।
विहाय पंकेरुहकाननानि स्फारस्फुरत्केतकमभ्युपास्य ।
मेघागमेऽस्मिन्नुपजातिसर्वे भ्रमन्त्यमी षट्चरणा रणंतः ॥
एवमन्यान्यप्युदाहरणानि कुमारसम्भवादिमहाकाव्येषु टृष्टव्यानि |
समवृत्ताध्यायेऽपि प्रसंगादुपजातीनां पाठा लाघवार्थः । एषां प्रस्तारवशाच्चतुर्दशप्रकारा भवन्ति । ते च त्रेखकेन पूर्वपत्रे रचिताः । अत्र प्रथमगणकृत एव विशेषः । जत एव परस्तार्यन्तो । यथा |
15 | | 55 | | |5| | 55 | | |5| | ५5 | | 15|| | 55 | | |5| | 55 | | 15|| | 55 | | 15 | | ऽ5|
५5|| | ॥5| | |5| | ५95 | | 55 | | |5| | |5| | 55 | | 55 | | |5| | 5 | | 55 | | 55 | | 5|
146 पाठे तावियोग । 14! पाठे विजितामरारेस ।